Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपक्रमः॥
॥श्रीभरतेश्वरवृत्तिः।
अथ प्रस्तूयते प्रस्तुतं तावत्-पापठ्यते यः प्रत्यहं श्रद्धाभावितचेतोभिर्भावुकैः स्वाध्यायतया प्रत्यूषावश्यकक्रियाकाले सोऽयं श्रीजिनशासननभोनभोमणिसदृशां सुदृशां भरतेशाद्यपुरुषमौलिमणीनां पुण्याभिधेयैर्ग्रथितो भूषितश्च "भरहेसरबाहुबली"ति स्वाध्यायः । भावुककर्मेन्धनपावके पावकेऽस्मिन् स्वाध्याये जोघुष्यमाणा निजचरितचित्रितजगज्जनास्ते महात्मानः कदा क कीदृशं भूवलयं जनपदं वा खजनुषाऽलञ्चकुरित्यैतिह्यवृत्तप्रकटनपरोऽयमुपदीक्रियमाणः सुललितगद्यपद्यनिबद्धो "भरतेश्वरबाहुबलिवृत्तिग्रन्थाः" स्वाभिधेयं स्वयमेव स्पष्टीकरोतीत्यत्र नास्ति कथनावकाशः। __किश्च विषयश्चास्य कथानुयोगसत्कः । न शङ्कालेशोऽपि "पुरुषविश्वासे वचनविश्वासः” इति सार्वसमयसिद्धोक्ती, जायतेऽतः सहजा जातुचिदारेकेयम् , यदुत ‘क इमे कृतेरस्या मूलप्रणेतारः, के चेमे वृत्तिकारा' इति, तत्र तावदस्य मूलप्रणेतारस्तु पूज्यप्रवेकाः क इत्यत्रोत्तरदाने नास्त्यस्मत्सामर्थ्यम्, तदुपलम्भकसामग्रीविरहात्, ज्ञापयिष्यन्ति वृत्तज्ञास्तद्वृत्तम्, " न चाऽप्रसिद्धकर्तृकोऽसौ प्रकृतप्रबन्धोऽप्रामाण्यमीयादिति वाच्यम्, नाऽप्रामाण्यं साम्प्रतकालीनकर्बप्रसिद्धिनिबन्धनं किन्तु स्वोत्प्रेक्षाप्रयुक्तं तत्, न च तत् सम्भवत्यस्मिन् प्रबन्धे, प्रामाणिकशेखरैराहतत्वात् । वृत्तिकाराश्वाऽस्य प्रतीता एव वन्द्यपादाः श्रीमन्तः शुभशीलगणिनः । विनेयाश्चेमे | जिनशासनकैरववनेन्दूनां सहस्रावधानसाधकश्रीमुनिसुन्दरसूरिवराणाम्, एतेषां सत्तासमयः स्पष्ट एव, स्वयमेव ते प्रणिजगदुः खकीयस्याऽस्य प्रन्थस्य प्रशस्तौ तद्वृत्तम्, यथाहि-"श्रीमन्मुनीशमुनिसुन्दरमरिराज-शिष्यो मुनीशशुभशील इति प्रमुख्यः । एतां कथां वितनुते स्म नेवाम्बरेषु-चन्द्रप्रमाणसमये किल विक्रमार्कात्॥” प्रतीयतेऽतः स्पष्टतया श्रीमतां वृत्तिकृतां सत्तासमयः पञ्चदशशताब्द्या अन्त्यकाल: प्रारम्भकालश्च षोडशशताब्द्या विक्रमार्कात् । स्वजन्मना चालचक्रुरिमं भूवलयं तत्समय इमे वृत्तिकृतः ।
jainelibrary.org
Jain Education
For Private 8 Personal Use Only
Bonal

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 398