SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ उपक्रमः॥ ॥श्रीभरतेश्वरवृत्तिः। अथ प्रस्तूयते प्रस्तुतं तावत्-पापठ्यते यः प्रत्यहं श्रद्धाभावितचेतोभिर्भावुकैः स्वाध्यायतया प्रत्यूषावश्यकक्रियाकाले सोऽयं श्रीजिनशासननभोनभोमणिसदृशां सुदृशां भरतेशाद्यपुरुषमौलिमणीनां पुण्याभिधेयैर्ग्रथितो भूषितश्च "भरहेसरबाहुबली"ति स्वाध्यायः । भावुककर्मेन्धनपावके पावकेऽस्मिन् स्वाध्याये जोघुष्यमाणा निजचरितचित्रितजगज्जनास्ते महात्मानः कदा क कीदृशं भूवलयं जनपदं वा खजनुषाऽलञ्चकुरित्यैतिह्यवृत्तप्रकटनपरोऽयमुपदीक्रियमाणः सुललितगद्यपद्यनिबद्धो "भरतेश्वरबाहुबलिवृत्तिग्रन्थाः" स्वाभिधेयं स्वयमेव स्पष्टीकरोतीत्यत्र नास्ति कथनावकाशः। __किश्च विषयश्चास्य कथानुयोगसत्कः । न शङ्कालेशोऽपि "पुरुषविश्वासे वचनविश्वासः” इति सार्वसमयसिद्धोक्ती, जायतेऽतः सहजा जातुचिदारेकेयम् , यदुत ‘क इमे कृतेरस्या मूलप्रणेतारः, के चेमे वृत्तिकारा' इति, तत्र तावदस्य मूलप्रणेतारस्तु पूज्यप्रवेकाः क इत्यत्रोत्तरदाने नास्त्यस्मत्सामर्थ्यम्, तदुपलम्भकसामग्रीविरहात्, ज्ञापयिष्यन्ति वृत्तज्ञास्तद्वृत्तम्, " न चाऽप्रसिद्धकर्तृकोऽसौ प्रकृतप्रबन्धोऽप्रामाण्यमीयादिति वाच्यम्, नाऽप्रामाण्यं साम्प्रतकालीनकर्बप्रसिद्धिनिबन्धनं किन्तु स्वोत्प्रेक्षाप्रयुक्तं तत्, न च तत् सम्भवत्यस्मिन् प्रबन्धे, प्रामाणिकशेखरैराहतत्वात् । वृत्तिकाराश्वाऽस्य प्रतीता एव वन्द्यपादाः श्रीमन्तः शुभशीलगणिनः । विनेयाश्चेमे | जिनशासनकैरववनेन्दूनां सहस्रावधानसाधकश्रीमुनिसुन्दरसूरिवराणाम्, एतेषां सत्तासमयः स्पष्ट एव, स्वयमेव ते प्रणिजगदुः खकीयस्याऽस्य प्रन्थस्य प्रशस्तौ तद्वृत्तम्, यथाहि-"श्रीमन्मुनीशमुनिसुन्दरमरिराज-शिष्यो मुनीशशुभशील इति प्रमुख्यः । एतां कथां वितनुते स्म नेवाम्बरेषु-चन्द्रप्रमाणसमये किल विक्रमार्कात्॥” प्रतीयतेऽतः स्पष्टतया श्रीमतां वृत्तिकृतां सत्तासमयः पञ्चदशशताब्द्या अन्त्यकाल: प्रारम्भकालश्च षोडशशताब्द्या विक्रमार्कात् । स्वजन्मना चालचक्रुरिमं भूवलयं तत्समय इमे वृत्तिकृतः । jainelibrary.org Jain Education For Private 8 Personal Use Only Bonal
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy