SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ नमः प्रणतसुरनाथाय तीर्थनाथाय श्रीमते शङ्केश्वरपार्श्वनाथाय । अथाऽऽरभ्यत उपक्रमोऽयं श्रीभरतेश्वरवृत्तेः । ॐ ऐं नमः। अयि श्रद्धाभरभावितमनसः महामनसः! विदितमेवैतद् विश्वेषां पारमेश्वरप्रवचनपानपीनात्मनां विदुषां, यदुत प्रवर्तन्ते |चत्वारोऽनुयोगाः सार्वे समये, तत्र च द्रव्य-गणित-चरणकरण-कथानुयोगेष्वेषु चतुर्पु कथानुयोगस्याऽपि स्थानं महत्तमम् , सन्दब्धाश्वानेके प्रबन्धाः स्वधिया सुरगुरुसंस्पर्द्धिभिः भव्योपकृतिबद्धकः पूज्यप्रवेकैरस्मिन्ननुयोगे बालधियाममन्दानन्दाप्त्यै । ___ एतेन सार्वसमयाऽज्ञैरैतिह्मवृत्तान्वेषणबद्धानहैः प्रलपिताः 'कथानुयोगघटिताः प्रबन्धा दुर्घटा असम्भवदेतिह्यवृत्ताः कल्पिताश्चेति दोषाः प्रत्युक्ताः, यतो नास्त्यनाद्यनन्तेऽस्मिन् पारावारे संसारे किञ्चिदपि दुर्घटम् , अपि च परोपकृत्येकनिबद्धमनसां तेषां महात्मनां वचस्सु। को नाम धीदरिद्रः कल्पनोपजीवित्वं स्वीकुर्यात् ?, नास्ति प्रयोजनं किमपि सार्वसमयवेदिनां तेषां यद् विहाय भवमीलुकतां प्रवर्तेरन् ते स्वकीयकल्पनासृष्टी, अपि च स्वोत्प्रेक्षाहतश्रद्धाभरा अमी नव्ययुगीनाः तत्तत्कालीनैतिह्यसामग्री प्रति निरपेक्षाः सन्तः "अन्धस्पृष्टगजन्यायेन” स्वाभीष्टमेव पुष्णाना मोमुह्यन्ते मिथः, न श्रद्दधते च मुनिगणनाथघटितप्रबन्धेष्वैतिद्वत्वं, श्रद्दधते च शिरोधूननेन पाश्चात्यविद्वत्कपितेषु प्रामाण्यमित्यलं दुष्षमाकालकवलितविवेकनेत्राणां तेषाङ्कथयाऽनया । मरते. Jain Education a l For Private & Personel Use Only Mainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy