________________
Jain Education
विहाय कृतिमिमां प्रथिताः के के प्रबन्धा एभिर्महात्मभिरिति ज्ञातुं नास्ति सम्पूर्णा सामग्री, तद्वैकल्यमेव दुनोत्यस्मच्चेतांसि, तथापि यथाज्ञातं प्रतन्यते किश्चित्
( १ ) विक्रमनृपोदन्तग्रथनपरं 'विक्रमचरित्रम्,' रचनाकालश्च बिन्दुनिधिवेदेन्दुमितो वत्सरः ।
( २ ) ‘प्रभावककथा', कृतावस्यां प्रथितश्चैभिः सार्वशासनप्रभावनाकृतामैतिह्यवृत्तम्, प्रथनकालश्च वॉर्द्धिगगनं भूतैक्षोणिमितः संवत्सरः । ( ३ ) ' स्वोपज्ञटीकोपेतः श्रीशत्रुञ्जयकल्पः', रचनवेला च नागर्धरेषुचेन्द्रप्रमितो वत्सरः ।
(४) 'शालिवाहननृपचरित, कृतः प्रबन्धोऽयं गगनाधिपञ्चभूमिते वत्सरे । प्रन्थाश्चैतेऽधुना क्व सन्ति, मुद्रिता न वेति विशेषवृत्तं न जानीमो वयम् ।
(५) 'पुण्यधननृपकथा', प्रान्ते चास्याः संसूचितं तैः स्वनाम - यथा "शुभ भेव्यशीतलतादिमवर्णजनाम भवति यस्य वर्तः, पनवेमेनुकाल इयं, पुण्यधननृपकथा कृता तेन” । श्रूयन्ते चान्येऽपि ग्रन्था एतेषां पूज्यचरणानां पैंश्चास्तिप्रबोधसन्बन्धः, दानादिकथा ११५० श्लोक मितो प्रन्थोऽयं, पुण्यसारकथा प्रन्थोऽयं १३११ पद्यप्रमितः, शीलवतीकथा ९८८ पद्यमितोऽयं प्रबन्धः, स्नात्रपचाशिकाकथा, भक्तामर - महात्म्य: १७०० पद्यमितोऽयं प्रबन्धः, अनुमीयते तावदेतेन वृत्तिकृतां कथासाहित्यसर्जने परिश्रमोऽतीव, अपि च व्याकरणविषयस्पृशौ 'उणादिनाममाला - पञ्चवर्गसङ्ग्रह श्रेति द्वौ प्रबन्धौ श्रूयते, भविष्यन्त्यन्येऽपि विविधविषयस्पृशः प्रबन्धा अमीषाम् ।
श्रीमतां जनुः क्व कदेति वृत्तभिक्षुकेभ्यो नास्ति तदुत्तरदानसामर्थ्यम्, वृत्तिकृतां चैषां गच्छश्चान्द्रः, सतीर्थ्याश्वामीषां श्रीरत्नशेखरसूरिवराद्याः, तथाचाहुस्त एव
+ " जैन साहित्यनो संक्षिप्त इतिहास" इत्यत उद्धृतम्, * 'जनग्रन्थावली' इत्यतः समुद्धृतम् ।
For Private & Personal Use Only
jainelibrary.org