Book Title: Bhaktamara Sutra Author(s): Mantungsuri, Yugchandravijay Publisher: Bhadrankar Prakashan View full book textPage 7
________________ ॥ श्री मानतुङ्गसूरिविरचितम् ॥ > कलाभिर्वर्तते यत् तत् सकलं, वाचां विकारोऽवयवो वा वाङ्मयं एकस्वरात् (अ० ६, पा० २, सू० ४८) इति हैमसूत्रात् मयट्, कश्चित् तु वाचा निर्वृत्तं वाङ्मयमित्युक्त्वा तत्पुरुषोऽयमित्याख्यत्, तथा तस्य भावस्तत्त्वं सकलं च तद् वाङ्मयं च सकलवाङ्मयं सकलवाङ्मयस्य तत्त्वं सकलवाङ्मयतत्त्वं, तस्य बोधः सकलवाङ्मयतत्त्वबोधस्तस्मात् हेतौ पञ्चमी । उद्भूता चासौ बुद्धिश्च उद्भूतबुद्धिः स्त्रीलिङ्गकर्मधारयः, उद्भूतबुद्ध्या पटवः उद्भूतबुद्धिपटवः । सुराणां लोकाः सुरलोकाः, सुरलोकानां नाथाः सुरलोकनाथास्तैः कर्तरि तृतीया । स्तूयते एभिरिति, नीदाम्वुशसू०' (अ. ५, पा. २, सू. ८८) इति हैमसूत्रेण त्रट्प्रत्ययः, करणे तृतीया । त्रयोऽवयवा अस्य त्रितयं, जगतां त्रितयं जगत्त्रितयं, जगत्त्रितयस्य चित्तानि जगत्त्रितयचित्तानि तानि हरन्तीति जगत्त्रितयचित्तहराणि सर्वत्र तत्पुरुषः । स्तोष्ये इत्यत्र स्तवनजन्यपुण्यस्य आत्मगामित्वादात्मनेपदम् / जिना :- सामान्यकेवलिनस्तेषु इन्द्र इव इन्द्रो जिनेन्द्र : - तीर्थंकरः, स तेषामपि प्रदक्षिणादिरूपोपचारविनयविषय इति भावः ॥ > > , , ननु स्तोत्रस्यैव मङ्गलत्वात् तदारम्भे मङ्गलाचरणेऽनवस्थेति चेत्, न, स्तोत्रस्य भावमङ्गलत्वेन ततोऽपि स्थापनारूपजिनपादप्रणामस्य शिष्यादीनामपि तथा प्रवर्तकत्वेन शिष्टाचाररक्षणस्यावश्यकत्वाच्च वैशिष्ट्यख्यापनेन अदुष्टत्वात्, न च अनवस्था, तीर्थकृतां भावमङ्गलरूपव्रताङ्गीकारे 'काउण नमोक्कारं, सिद्धाणमभिग्गहं तु सो गिण्हे' (आवश्यक-निर्युक्तौ) इत्यागमान्नमोमङ्गलस्यावश्यकत्वेन दर्शनात्, विवाहप्रज्ञप्त्यादिधर्मशास्त्रेषु अपि आदौ मङ्गलसद्भावाच्चेति ।। नन्वेवमपि 'त' गणग्रहणमादौ कथं ? तस्य कविसमये निषिद्धत्वात् । 'उर्वी मस्त्रिगुरुः श्रियं वितनुते नः स्वस्त्रिलो जीवितं रोऽग्निर्मध्यलघुर्मृतिं स पवनो देशभनं चान्त्यगुः । यो वार्यादिलघुर्धृतिं दिनमणिर्मध्येगुरुर्जी रुजं द्यौस्तो मूर्तिधनक्षयं गुरुमुखो भस्तारकेशो यशः || १ || ' • शार्दुल० —— इति गणाष्टकविवरणे, तथा 'भः प्रभुक्षोभकारकः ' इत्युक्तत्वात् भकारोऽपि नादौ ग्राह्य इति चेटुच्यते ४Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 203