Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 12
________________ ॥ श्री भक्तामरस्तोत्रम् ॥ अथैवमशक्यकार्यतां दृढीकृत्य प्रवृत्तिहेतुमाह सोऽहं तथापि तव भक्तिवशान्मुनीश ! कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्रं नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५ ॥ - दण्डान्वय :- तथापि मुनीश ! सः अहम् विगतशक्तिः अपि तव भक्तिवशात् स्तवम् कर्तुम् प्रवृत्तः मृग: आत्मवीर्यम् अविचार्य प्रीत्या निजशिशोः परिपालनार्थम् किम् मृगेन्द्रम् न अभ्येति ? | , हे मुनीश ! तथापि सोऽहं स्तवं कर्तुं प्रवृत्तोऽस्मि इत्यन्वयः । कर्तरि उक्तिः। 'यत्रान्यत् क्रियापदं न श्रूयते तत्र अस्तिर्भवन्त्यादिपरः प्रयुज्यत इति न्यायादत्र 'अस्मि' इति क्रियापदम् । कः कर्ता ? 'सः' 'अहं विगतत्रपः' इत्यादिविशेषणविशिष्टः। कथंभूतः अहम् ? ' प्रवृत्तः ' कृतारम्भः । किम् ? 'कर्तुम्'। कं कर्मतापन्नम् ? 'स्तवं' स्तोत्रम् । 'स्तवः स्तोत्रं स्तुतिर्नुतिः' (अभि. का. २, श्लो.१८३) इति हेमसूरयः । कथम् ? ' तथापि ' । सुरगुरुणाऽपि दुष्करस्तवने मादृशमन्दधियः सर्वथा असमर्थत्वेऽपि । तत्र हेतुमाह । कस्मात् हेतोः ? 'भक्तिवशात्' आन्तरप्रीतिबलात्। कस्य? 'तव' । कथंभूतः अहम् ? 'विगतशक्तिरपि' निश्चितस्वकीयासामर्थ्योऽपि । अत्रान्वये द्वावपिशब्दौ अत्यन्तासङ्गत्यदर्शनेन वक्ष्यमाणां बहुश्रुतोपहसनीयतां प्राहतुः । असमर्थस्यापि प्रवृतौ हेतुं सूचयन्नर्थान्तरमाह - मृगो मृगेन्द्रं किं नाभ्येति ? इत्यन्वयः । कर्तरि उक्तिः । 'अभ्येति' इति क्रियापदम् । सन्मुखं यातीत्यर्थः । कथम् ? 'न', काक्वा अपितु अभ्यत्येव । कः कर्ता ? 'मृगः' हरिणः । कं कर्मतापन्नम् ? 'मृगेन्द्रं' सिंहम् । किं कृत्वा ? 'प्रीत्या' स्नेहेन 'आत्मवीर्यं' स्वबलम् 'अविचार्य' अविमृश्य। किमर्थम् ? 'निजशिशोः परिपालनार्थं " स्वबालकरक्षणाय । अत्रार्थे यथा सर्वथा मृगस्य सामर्थ्यं नास्ति तथापि स ९

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 203