Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 10
________________ सम्पादकीयम् तृतीयो विभागः श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 8 // उत्तरद्वाराणि च प्ररूपितानि / गुरोर्वन्दनाऽवसरे कीदृशो भावो श्रीग्रन्थकारस्यापेक्षितं तज्ज्ञानं वन्दनाध्ययने भवति / वन्दनीयावन्दनीये मालादृष्टान्तः, पार्श्वस्थादेवन्दने दोषाः लिङ्गस्य अप्रमाण्यम्, नित्यवासे सदोषताचेत्यादिविषयाः दृष्टान्तेन दर्शिताः / वन्दने द्वात्रिंशदोषास्तथा पञ्चविंशतिरावश्यकानि प्ररूपितानि / द्वात्रिंशद्दोषाणां पञ्चविंशतीनामावश्यकानां चान्यतरत्स्थानं विराधयन्न भवति कृतिकर्मनिर्जराभागी।एवंद्वात्रिंशद्दोषपरिशुद्धं वन्दनं तथा पञ्चविंशत्यावश्यकसहितंच वन्दनं यः प्रयुङ्क्ते स प्राप्नोति निर्वाणं विमानवासं वा / एवं वन्दनस्य फलं निदर्श्य वन्दनावश्यके गुरोःप्रति भावसमर्पणमेव मोक्षस्य कारणं दर्शितम्। चतुर्थे प्रतिक्रमणाध्ययने प्रतिक्रमणशब्दस्य एकार्थिकानि दृष्टान्तसहितानि निरूपितानि तद्यथा प्रतिक्रमणैकार्थिकानि दृष्टान्ताः १.प्रतिक्रमण अध्वानः २.प्रतिचरणा प्रासादः ३.परिहरणा दुग्धकायः 4. वारणा विषभोजनं ५.निवृत्ति तडागं ६.निन्दा 7. गर्दा पतिमारिका ८.शुद्धि वस्त्रं चागदश्च श्रीआवश्यकसूत्रस्य हादसूत्रं श्रीप्रतिक्रमणसूत्रम् / एकादियावत्त्रयस्त्रिंशद्स्थानानि स्मारयित्वा विशुद्धप्रतिक्रमणं कार्यमित्युपदेशं दत्तम्। पडिक्कमामि चउहिंझाणेहिं सूत्रेण धर्मध्यानं शुक्लध्यानंच ध्यातव्यं तथा आर्तध्यानं रौद्रध्यानंचन ध्यातव्यमिति निर्दिश्य यदतिचारं कृतं तस्य मिच्छामि दुक्कडं दत्तं तथा अनेन संपूर्ण ध्यानशतकं प्ररूपितम् / तद्यथा

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 508