Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
रघु० टी० । अकुर्वतोऽपौत्यादि। तथा च बीजवस्य करणव्यभिचारोऽकरणस्थ बौजवाभावव्यभिचारश्चोभयसिद्ध इति न प्रसङ्गविपर्ययप्रवृत्तिरिति भावः ॥
न द्वितीयः() तस्य कुर्वतोऽपि मयानभ्युपगमेन दृष्टान्तस्य साधनविकलत्वात्। को हि नाम सुस्थात्मा प्रमाणशून्यमभ्युपगच्छेत् । स हि न तावत् प्रत्यक्षेणानुभूयते तथानवसायात् । नाप्यनुमानेन लिङ्गाभावात्। यदि न कश्चिविशेषः कथं तर्हि करणाकरणे इति चेत् क एवमाह नेति। परं किं जातिभेदरूपः सहकारिलाभालाभरूयो वेति नियामकं प्रमाणमनुसरन्तो न पश्यामः । तथापि योऽयं सहकारिमध्यमध्यासीनोऽक्षेपकरणस्वभावो भावः स यदि प्रागण्यासौत् तदा प्रसह्य कार्यं कुर्वाणो गीर्वाणशापशतेनाप्यपहस्तयितुं न शक्यते इति चेत् युक्तमेतत् । यद्यक्षेपकरणस्वभावत्वम् (२) भावस्य प्रमाणगोचरः स्यात् तदेव कुतः सिद्धमिति नाधिगच्छामः । प्रसङ्गतदिपर्ययाभ्यामिति चेत् न परस्पराश्रयप्रसङ्गात् । एवंस्वभावत्वसिद्धौर) हि तयोः प्रत्तिः तत्परत्तो चैवंस्वभावत्वसिद्धिरिति ॥
(१) नापि द्वितीयः-पा० १ । ३ पु०। (२) धर्मत्वं-पा० १ पु• ।
(३) स्वभावसिद्धौ-पा० १ पु० । अयमेव भगौर थाभिप्रेतः ।
For Private and Personal Use Only