Book Title: Atmanand Prakash Pustak 071 Ank 03 04
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 219
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ पुण्यात्मनो विरहः ॥ रचयिता-पण्डित श्री हरिश'कर अम्बाराम शास्त्री दुर्गे जेसलमेरुनाम्नि वसतिं कृत्वाऽऽप्तविद्वद्वरैः उद्धाराय समस्तहस्तलिखितप्राचीनग्रन्थप्रतीः । एवं पत्तनसत्कनिखिलप्राचीनभाण्डाकरान् खम्भातस्थसमस्तग्रन्थनिवहानुद्धत्य विख्यातवान् ॥१॥ श्रीमज्जैनमुनीन्द्रपुण्यविजयो जैने समाजेऽग्रणीः त्यक्त्वास्मान् निजभक्तकान् विधिहतान् भक्तं सुरेन्द्र गतः। शड्केय समुपस्थिता किमु वयं भक्तिप्रमेये जडा येनामवंगणाप्तभक्तिभरतः स्वात्मा ह्यम-कृतः ॥२॥ हे ! साधो न विहातुमर्हति भवान् बालाननाथांस्तथा किं कुर्मो वयमद्य धर्मविसरं कार्यानभिज्ञा अहो । कालेऽस्मिन् कलिना विधर्मनिहते को मार्गसन्दर्शकः संसारार्णवभीतिरक्षणविधौ त्यज्यामहे तात ! किम् ॥३॥ विद्वच्चित्तचकोरमोदजनिकां मुद्रां मुखेन्दोः कथम् द्रक्ष्यामस्त्रिदिवेशसमवसतेः श्रीपुण्यसाधोश्च ते । आदेशामृततर्पणस्य तु कथं वार्ता विधेयाधुना देवानामनुलोम दैवमथवा शोकं भजेमैककम् ॥४॥ ये ये सजनपुङ्गवा जगति ते सर्वे यथावश्यकाः स्वर्गे सज्जनसामेच्छविबुधा वाञ्छन्ति ताँस्तांस्तथा । येनेमां नु विहाय मर्त्यवसतिं देवीग्रहात्स्वर्गतः हा धिक् ! शोकसमुद्रविप्लवगतान कोऽस्मान्ग्रहीष्यत्यहो ॥५॥ हे हे सद्गुरुवर्य ! निर्मलमनश्चादर्शसाधूत्तम! ___ कार्याकार्यविवेकदीपकमते ! चारित्र्यच्डामणे ! । कृत्वा संसृतिगर्तमग्नकुधियामुद्धारकायें मुदा उन्नत्यै जिनशासनस्य रुचिरो देहश्च नापेक्षितः ।।६।। सद्धर्मप्रतिपादनेन सुगुरुं बन्धुश्च धैर्यप्रदम् सत्कार्यानुगतं स्वभावसरलं सर्वैः सखायं कृतम् । शान्तं सारगुणैः प्रकाशितमतिमेवं जनैः संस्तुतम् ___ श्रीपुण्यं हरता हि वामविधिना किं नोऽस्मदीयं हृतम् ॥७।। वृत्ति वालय चित्त ! विज्ञवरतः शोकं मुधा मा कृथाः. ___ पञ्चत्वं हि गताः कदापि पुनरत्रायान्ति किं श्रूयते । आशां तद्विषयां विहाय अधुना प्रार्थ्यः प्रभुः श्रद्धया श्रीपुण्याय चिरं ददातु विपुलां शान्ति सदा केवलम् ॥८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249