________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ पुण्यात्मनो विरहः ॥ रचयिता-पण्डित श्री हरिश'कर अम्बाराम शास्त्री
दुर्गे जेसलमेरुनाम्नि वसतिं कृत्वाऽऽप्तविद्वद्वरैः
उद्धाराय समस्तहस्तलिखितप्राचीनग्रन्थप्रतीः । एवं पत्तनसत्कनिखिलप्राचीनभाण्डाकरान्
खम्भातस्थसमस्तग्रन्थनिवहानुद्धत्य विख्यातवान् ॥१॥ श्रीमज्जैनमुनीन्द्रपुण्यविजयो जैने समाजेऽग्रणीः
त्यक्त्वास्मान् निजभक्तकान् विधिहतान् भक्तं सुरेन्द्र गतः। शड्केय समुपस्थिता किमु वयं भक्तिप्रमेये जडा
येनामवंगणाप्तभक्तिभरतः स्वात्मा ह्यम-कृतः ॥२॥ हे ! साधो न विहातुमर्हति भवान् बालाननाथांस्तथा
किं कुर्मो वयमद्य धर्मविसरं कार्यानभिज्ञा अहो । कालेऽस्मिन् कलिना विधर्मनिहते को मार्गसन्दर्शकः
संसारार्णवभीतिरक्षणविधौ त्यज्यामहे तात ! किम् ॥३॥ विद्वच्चित्तचकोरमोदजनिकां मुद्रां मुखेन्दोः कथम्
द्रक्ष्यामस्त्रिदिवेशसमवसतेः श्रीपुण्यसाधोश्च ते । आदेशामृततर्पणस्य तु कथं वार्ता विधेयाधुना
देवानामनुलोम दैवमथवा शोकं भजेमैककम् ॥४॥ ये ये सजनपुङ्गवा जगति ते सर्वे यथावश्यकाः
स्वर्गे सज्जनसामेच्छविबुधा वाञ्छन्ति ताँस्तांस्तथा । येनेमां नु विहाय मर्त्यवसतिं देवीग्रहात्स्वर्गतः
हा धिक् ! शोकसमुद्रविप्लवगतान कोऽस्मान्ग्रहीष्यत्यहो ॥५॥ हे हे सद्गुरुवर्य ! निर्मलमनश्चादर्शसाधूत्तम!
___ कार्याकार्यविवेकदीपकमते ! चारित्र्यच्डामणे ! । कृत्वा संसृतिगर्तमग्नकुधियामुद्धारकायें मुदा
उन्नत्यै जिनशासनस्य रुचिरो देहश्च नापेक्षितः ।।६।। सद्धर्मप्रतिपादनेन सुगुरुं बन्धुश्च धैर्यप्रदम्
सत्कार्यानुगतं स्वभावसरलं सर्वैः सखायं कृतम् । शान्तं सारगुणैः प्रकाशितमतिमेवं जनैः संस्तुतम्
___ श्रीपुण्यं हरता हि वामविधिना किं नोऽस्मदीयं हृतम् ॥७।। वृत्ति वालय चित्त ! विज्ञवरतः शोकं मुधा मा कृथाः.
___ पञ्चत्वं हि गताः कदापि पुनरत्रायान्ति किं श्रूयते । आशां तद्विषयां विहाय अधुना प्रार्थ्यः प्रभुः श्रद्धया
श्रीपुण्याय चिरं ददातु विपुलां शान्ति सदा केवलम् ॥८॥
For Private And Personal Use Only