Book Title: Atama Zankhe Chutkaro
Author(s): Sunandaben Vohra
Publisher: Anandsumangal Parivar
View full book text
________________
गौरः स्थूलः कृशो वाऽहमित्यने नाविशेषयन् । आत्मानं धारयेन्नित्यं, केवलज्ञप्तिविग्रहम् ॥७०॥ मुक्तिरेकान्तिकी तस्य, चेत्ते यस्याचलाधृतिः। तस्य नैकान्तिकी मुक्तिर्यस्य नास्त्यचला धृतिः ॥७१॥ जनेम्यो वाक् ततः स्पन्दो, मनसश्चित्तविभ्रमाः । भवन्ति तस्मासंसर्ग, जनैयोगी ततस्त्यजेत् ॥७२॥ ग्रामोऽरण्यमिति द्वेधा, निवासोऽनात्मदर्शिनाम् । दृष्टात्मनां निवासस्तु, विविक्तात्मैव निश्चलः ॥७३॥ देहान्तरगते/जं, देहेऽस्मिन्नात्मभावना । बीजं विदेहनिष्पत्तेरात्मन्यवात्मभावना ॥७४॥ नयत्यात्मानमात्मैव, जन्म निर्वाणमेव च । गुरुरात्मात्मनस्तस्मानान्येऽस्ति परमार्थतः ॥७॥ दृढात्मबुद्धिर्देहादाबुत्पश्यन्नाशमात्मनः । मित्रादिभिर्वियोगं च, विभेति मरणाद् भृशम् ॥७६॥ आत्मन्येवात्मधीरन्यां, शरीरगतिमात्मनः । मन्यते निर्भयं त्यक्त्वा, वस्त्रं वस्त्रान्तरग्रहम् ॥७७॥ व्यवहारे सुषुप्तो यः, स जागात्मगोचरे । जागर्ति व्यवहारेऽस्मिन्, सुषुत्पश्चात्मगोचरे ॥७॥ आत्मानमन्तरे दृष्ट्वा देहादिकं बहिः । तयोरन्तरविज्ञानादभ्यासादच्युतो भवेत् ॥७९॥ पूर्वं दृष्टात्मतत्त्वस्य, विभात्युन्मत्तवजगत् । स्वभ्यस्तात्मधियः पश्चात्, काष्टपाषाणरूपवत् ॥८॥ श्रृण्वन्नप्यन्यतः कामं, वदन्नपि कलेवरात् । नात्मानं भावयेद् भित्रं, यावत्तावत्र मोक्षभाक् ॥११॥
૨૨
આતમ ઝંખે છુટકારો
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348