Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 22
________________ अष्टसहस्त्रीतात्पर्यविवरणम् [ब्रह्माद्वैतवादी सर्वचेतनाचेतनपदार्थान् ब्रह्मणो अन्तः प्रविष्टमेव मन्यते तस्य पूर्वपक्ष: ] स्यान्मतं-‘न ब्रह्माद्वैतं प्रमाणप्रत्यनीकत्वात् स्वमनीषिकाभिरारचितं, तस्यानुमानादागमाद्वा प्रमाणात्प्रसिद्धेः । तथा हि-यत्प्रतिभाससमानाधिकरणं तत्प्रतिभासान्तःप्रविष्टमेव । यथा प्रतिभासस्वरूपम् । प्रतिभाससमानाधिकरणं च सर्वम्, इति हेतोः परब्रह्मसिद्धिः । न चायमसिद्धः सुखं प्रतिभासते; रूपं प्रतिभासते इति सर्वत्र प्रतिभाससमानाधिकरणत्वस्य प्रतीतेरन्यथा सद्भावासिद्धेः । अप्रतिभासमानस्यापि सद्भावे सर्वस्य मनोरथसिद्धिप्रसङ्गान्न किञ्चिदसत्स्यात् । अथ प्रतिभासव्यतिरिक्तस्य प्रतिभास्यस्यार्थस्यान्तर्बहिर्वोपचारात्प्रतिभाससमानाधिकरणत्वव्यवस्थितेः प्रतिभासस्वरूपमुख्यतोपपत्तेरसिद्धो हेतुरिति मतं तदप्यसम्यक्, प्रतिभास्यप्रतिभासयोस्तद्भावानुपपत्तेः । प्रतिभासस्य हेतुत्वात्प्रतिभास्योऽर्थ इति चेत्, न, प्रतिभासमात्रस्याहेतुकत्वात्कस्यचित्तद्धेतुत्वायोगात् । तदहेतुकत्वम्, अकादाचित्कत्वात्, अन्यथा कदाचित्तदभावप्रसङ्गात् । प्रतिभासालम्बनत्वात्प्रतिभास्योऽर्थो भवतीति चेत्, कुतस्तस्य प्रतिभासालम्बनत्वम् ? प्रतिभास्यत्वादिति चेत्, परस्पराश्रयणम् । प्रतिभासालम्बनत्वयोग्यत्वादिति चेत्, तर्हि प्रतिभासस्वरूपमेव प्रतिभास्यं, तस्यैव प्रतिभासालम्बनत्वोपपत्तेः सर्वत्र प्रतिभासस्य स्वरूपालम्बनत्वात् । तथा च कथं विषयस्योपचरितं प्रतिभाससमानाधिकरणत्वं यतोऽसिद्धो तुः स्यात् ? । तत एव नानैकान्तिको विरुद्धो वा प्रतिभासान्तरप्रविष्टस्य कस्यचिदपि प्रतिभाससमानाधिकरणत्वायोगाद्धेतोर्विपक्षवृत्त्यभावात् । नाश्रयासिद्धिरपि हेतोः शङ्कनीया, सर्वस्य धर्मिणः परब्रह्मण एवाश्रयत्वात् । अष्टसहस्त्रीतात्पर्यविवरणम् प्रत्यविद्याशक्तिविशेषेण तत्र प्रतिभाससत्त्वमेव जन्यत इति चेत्, न, क्षणिकवादिवैलक्षण्ये तत्र तदेत्यस्य वाच्यत्वात्, तथाऽप्यन्यं प्रति व्यावहारिके उभयप्रतिभासप्रसङ्गाच्च । तस्मादापेक्षिकसत्त्वं ब्रुवाणो ज्ञानमात्रमभ्युपगम्य भेदमात्रमपछुवानो वेदान्ती माध्यमिकं नातिशयीतेति सुनिश्चिता नः प्रतीतिः ॥२५॥ 'तदभावानुपपत्तेः प्रतिभासस्वरूपाभावानुपपत्तेः, तर्हीति प्रतिभासविषयताया १. तद्भाव....इति अष्टसहस्रीसम्मतः पाठः । ४२४

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 294