Book Title: Anusandhan 2006 06 SrNo 36
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 30
________________ June-2006 झायह अडदलवलये सपणवमायाइए सवाहंते । सिद्धाइए दिसासुं विदिसासुं दंसणाई (ई ) ए ॥२॥ अथ झायह त्ति । इति पीठं लिखित्वा तत्पार्श्वे वृत्तं मण्डलं लिखेत् । तदुपरि अष्टदलकमलाकारं वलयं लिखेत् । तत्राऽष्टदलवलये चतुर्दिक्पत्रेषु प्रणवमायादिकान् स्वाहान्तान् सिद्धादिकान् चतुर्थीबहुवचनान्तान् इत्याम्नायः । ईदृशान् ध्यायेत् । तत्र प्रणवः- कारो, माया-नीकारः, तावादौ येषां ते तान् । सिद्धेभ्यः स्वाहा । पूर्वस्याम् । आचार्येभ्यः स्वाहा । दक्षिणस्याम् । | उपाध्यायेभ्यः स्वाहा। पश्चिमायाम्। सार्वसाधुभ्यः स्वाहा । उत्तरदिग्दले लिखेत् ॥ तथैव विदिक्षु दर्शनादीनि चत्वारि पदानि क्रमेण लिखेत् - दर्शनाय स्वाहा । आग्नेयकोणे । ज्ञानाय स्वाहा । नैर्ऋत्याम् । चारित्राय स्वाहा। वायवे(व्याम्) । तपसे स्वाहा । ईशानकोणे ॥ एवमष्टदलं प्रथमवलये ॥२॥ बीयवलयम्मि अडदिसि दलेसु साणाहए सरह वग्गे । अंतरदलेसु अट्ठसुझाय परमिट्ठिपढमपए ॥ ३ ॥ 25 बीयवलयम्मित्ति गाथा | प्रथमवलयबाह्यतो मण्डलाकारं षोडशदलं न्यसेत्। तत्र द्वितीयवलयेऽष्टस्वेकान्तरितदिग्दलेषु सानाहतान् अनाहतबीजसहितान् अष्टौ वर्गान् - 'अ-क-च-ट-त-प-य-श' रूपान् क्रमेण लिखेत् । तत्र प्रथमवर्गे षोडश वर्णाः । कवर्गादिषु पञ्चसु प्रत्येकं पञ्च पञ्च वर्णाः । अन्तिमवर्णद्वये प्रत्येकं चत्वारो वर्णाः । अंतरति । अष्टसु वर्गाणामन्तरदलेषु परमेष्टिप्रथमपदान् (नि) ध्याय (ये) त् । अष्टस्वेव प्रत्येकं नु नमो अरिहंताणं' इत्येकमेव पदं लिखेदित्यर्थः । एवं द्वितीयवलए (ये) ॥३॥ तई (इ) यवलए वि अडदिसि दिट्टंत अण ( णा )हएहिं अंतरिए । पायाहिणतित्थ (य? ) पंतिआहिं झाएह दलट्ठिएएए ॥४॥ तईयवलयम्मित्ति । तृतीयवलयेऽष्टसु दिक्षु अष्टावनाहतान् लिखेत् । तांश्च त्रिपङ्क्तिव्यापकान् लिखेत् । द्वयोर्द्वयोरन्तरे द्वे द्वे लब्धिपदे, एवमष्टस्वप्यन्तरेषु षोडश लब्धिपदानि प्रथमपङ्क्तौ । एवं षोडशैव द्वितीयपङ्क्तौ । एवमेव च तृतीयपङ्क्तौ । प्रादक्षिण्येन त्रिभिः पङ्क्तिभिरष्टचत्वारिंशल्लब्धिपदानि ध्यायत ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70