Book Title: Annikaputra Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra अभिकापुत्र चरित्रं ॥ ४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यो महाद्दूरमगच्छन् मदीय एव गृहे तिष्टति, तस्मै एव निजामिमां स्वसारं यच्छामि, नान्यस्य यत इयं मे स्वसा प्राणेभ्योऽप्यतीववल्लभास्ति ततो देवदत्तेनापि जयसिंहपार्श्वे गत्वा तदीयवचनं स्वीकृतं. ततो वर्ये दिवसे जयसिंहस्तां निजस्वसारमन्निकां देवदत्तेन सह पर्यणाययत्. अथ तया सह भोगान् भुंजानो देवदत्तस्तत्रैव निवसतिस्म. तत एकदा देवदत्तपितृभ्यां देवदत्तायैको लेखः प्रेषितः, तद्यथा-त्वं दूरे वर्तसे पुत्र । ह्यावां वृद्धत्वमागतौ । त्वमेव चेदिहायासि । तदा नौ जीवितं भवेत् ॥१॥ तं लेख वाचयतस्तस्य देवदत्तस्य नेत्राभ्यामश्रूणि वर्षुः एवं निजस्वामिनं दृष्ट्वा दुःखं प्राप्तयाऽन्निया रुदनकारणं पृष्टोऽपि स देवदत्तो न किंचिदपि जल्पति तदा तया स्वयमेव लेखमादायेत्यवाचि, भो वत्स ! अथावां वृद्धो निकनिधन स्वः, यदि त्वं नो जीवंतो दृष्टुं समोहसे, तदा त्वया शोधमत्रागंतव्यं, अत्र विषयेत्वया म नागपि विचारो न कार्यः, ततस्तयाश्रुपूर्णनेत्रया अन्निकयापि खेदातुराय निजस्वामिने प्रोक्तं, स्वामिन्!भवतो मातापितरो वार्धक्यं प्राप्तो स्तः, तेनावाभ्यामधुना तत्रैव गंतुं युज्यते इति निजप्रियावचो निशम्यदेवदत्तो जगौ, है प्रिये ! मया त्वदीयभ्रातुरग्रे पूर्व प्रतिपन्नमस्ति यदहमत्रेव स्थास्यामि सांप्रतं मया For Private and Personal Use Only मूल 118 11

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20