Book Title: Anekantajaypataka Swopagnya Tika Author(s): Haribhadrasuri, Publisher: ZZZ Unknown View full book textPage 5
________________ खोपाटीकासहिता। तव्यं प्रवृत्तिः कार्या, पुंसा पुरुषेण, न्यायः सब्यवस्थारूपः, सतां सत्पुरुषाणामेष एवंभूत इति । तथाविधशक्त्यभावे कथमित्याह-यद्यपीत्यादि । यद्यपि न तथाभूता पूर्वगुरुशक्तितुल्या, शक्तिः सामर्थ्यरूपा । कुत इत्याह-प्राकर्मदोषतो जन्मान्तरकृतकर्मदोषात् , तदप्येवमपि, शक्त्यनुरूप शक्त्युचितं, तत्र प्रवर्तितव्यम्। किमित्यत आह-उपायो हेतुर्न यतो यस्मात्, तत्प्राप्तयेऽपि तथाभूतशक्तिप्राप्त्यर्थमपि, अन्यस्तत्र तत्प्रवर्त्तनादिति । सत्यपीत्यादि । सत्यप्यन्यस्मिन् उपाये दानशीलादौ किमित्यत आहगुणवत्येव तु प्रवर्तितव्यमाक्षेपत उपेयसाधके इत्यर्थः । स च गुणवानेवोपायः । अन्यभावेऽपि सामान्येनोपायान्तरभावेऽपि, पण्डितैरुपायज्ञैः, गदित उक्तः । क इत्याह-यत्रैवोपाये शीलस्वाध्यायादौ, यस्य कर्तुः, शक्तिः सामर्थ्यलक्षणा, सात्म्य च सुखिभावसाधनम् ; यथोक्तम् “पानाहारादयो यस्य विरुद्धाः प्रकृतेरपि । सुखित्वायावकल्पन्ते तत्सात्म्यमिति गद्यते" ॥१॥ विशेषतो विशेषेण, तेषामुपायानां दानशीलतपःस्वाध्यायलक्षणानां मध्ये तत्र प्रवर्तितव्यामिति । किमित्येतदेवमित्याह-स तमित्यादि। स एवंभूतः पुमान् , तमुपायं दानादिम् , आराधयितुं निष्ठां नेतुं, अलं पर्याप्तये, यस्माद्भवति, आराध्य चैनमुपायं, आप्नोति प्राप्नोति। किमित्याहशक्त्यन्तरं ततोऽन्यच्छोभनतरम् ;सात्म्यान्तरोपलक्षणमेतत् । सात्म्यान्तरं च किंविशिष्टमित्याह-उपायान्तरसाधकं शीलाद्युपायान्तरनिपादकम् , उत्तम प्रधान, नियमानियमेन एतदेवं, सम्यगुपायस्य उपेयाव्यभिचारान् । यस्मादेवं-तस्मादित्यादि। तस्मात्कारणात् ,ममापि जातेति प्रकरणकारवचनमेतत् ; प्रकरणकरणसमीहा प्रकरणकरणबुद्धिरिति । योगः कुत इत्याह-शठोक्तिभिर्मोहितान् जडान वीक्ष्य । पूर्वनिमित्तात्कृपातश्चेति। इहानेकान्तात्मके वस्तुतत्त्वे एकान्तव्याजमोहनाच्छठा एकान्तषादिनः; तदुक्तिभिरेकान्तप्रतिपादिकाभिः, मोहिताननेकान्तात्मकात् तत्त्वास्त्रच्यावितान् , जडान मन्दमतीन् , वीक्ष्य दृष्ट्वा, पूर्वनिमित्तात् अनिन्द्यमार्गप्रवर्त्तनादेः; प्रकरणकरणं ह्यनिन्द्यो मार्गः पूर्वगुरुभिश्च कुक्काचार्यादि. Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 288