Book Title: Anekantajaypataka Swopagnya Tika Author(s): Haribhadrasuri, Publisher: ZZZ Unknown View full book textPage 9
________________ खोषज्ञटीकासहिता। दर्शने । सत्त्वं प्रसिद्धं, तदसत्त्वपरिहारेणासत्त्वानापत्त्या, व्यवस्थितम् ; असत्त्वमपि प्रतीतं, सत्त्वपरिहारेण व्यवस्थितमिति वर्त्तते । इत्थं चैतदजीकर्त्तव्यम् । अन्यथैवमनङ्गीकरणे, तयोः सत्त्वासत्त्वयोः, अविशेषः स्यादभेदः स्यात् , न चैतदेवम् । ततश्चेत्यादि । ततश्चैवं सति तद्वस्तु यदि सत् कथमसत् ?, अथासत्कथं सदिति ? किं नैवमित्याह-एकत्र वस्तुनि, सदसत्त्वयाविरोधात् परस्परपरिहारस्थितिलक्षणोऽयं विरोधइति । न चैतत्स्वमनीषिकया उच्यत इत्याह- तथा चोक्तं पूर्वसूरिमिः। यस्मादित्यादि । यस्मात्सत्त्वमसत्त्वं च विरुद्धम् । हि-हिशब्दएवकारार्थोऽवधारणे विरुद्धमेव, मिथः परस्परं, द्वयमेतद्, वस्त्वेकं सदसद्रूपं घटादि; तस्मात् खलु न युज्यते खल्वित्येवकारार्थोऽवधारणे, स च भिन्नक्रमः, न युज्यते एवेत्यर्थः । दोषान्तरमाहकिश्चेत्यादिना । किञ्चायमपरो दोषः-सदसद्रूपं वस्त्वभ्युपगच्छता परेण, सत्त्वमसत्त्वं च वस्तुधर्मतयाऽभ्युपगतं भवति । ततः किमित्याह-ततश्चात्रापि वक्तव्यम् परेण । धर्मर्मिणोः किं तावद्भेदः, आहोखिदभेदः, आहोस्विद्भेदाभेद इति विकल्पाः । किञ्चात इत्याहतत्र यदि तावद्भेदः, धर्मधर्मिणोः । ततः सदसत्त्वयोभिन्नत्वात् धर्मिणः सकाशात् , त्रितयमेतत् कथमेकं सदसद्रूपमिति ? । अथाभेदः सदसत्त्वयोर्धर्मिणः, ततः सदसत्त्वयोरेकत्वं एकस्मार्मिणः अभिनत्वात् , तत्स्वरूपवद् धर्मिस्वरूपवत् । अतोऽपि कथमेकं सदसद्रूपमिति ?, एकमेव तदित्यभिप्रायः । धर्मिणो वाऽभेदः सदसत्त्वयोरभिन्नत्वात् तत्स्वात्मवद्धर्मस्वात्मवत् । इत्थमपि कथमेकमुभयरूपं ?, व्यात्मकत्वात्तस्येत्यर्थः ॥ ___अथ भेदाभेदः । अत्रापि येनाकारेण भेदस्तेन भेद एव, येन चाभेदस्तेनाभेद एवः तदेवमपि नैकमुभयरूपम् । अथ येनैवाकारेण भेदस्तेनैवाभेदः, येनैव चाभेदस्तेनैव भेद इति । एतदप्यचारु । विरोधात् । तथाहि-यदि येनाकारेण भेदः कथं तैनेवाभेदः ? अथाभेदः कथं भेद इति ? । अथ येनाप्याकारेण भेदस्ते Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 288