Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 14
________________ १४ अनेकान्तजयपताका अतिदेशेन दूषणान्तरमाह-एतेनेत्यादिना। एतेनानन्तरादितेन सदसद्रूपतानिराकरणेन, नित्यानित्यमपि वस्तु, प्रत्युक्तं निराकृतम् ,अवगन्तव्यम् । कुत इत्याह-विरोधादेव । एतद्भावनायैवाह- तथाहीत्यादि । तथाहीत्युपदर्शने । अप्रच्युतः अनिवृत्तिस्वभावतया, अनुत्पन्नः सदाभावेन स्थिर एवंरूपतया एकः स्वभावो यस्य तत्तथाविधं नित्यमाख्यायते । अथवैवं विशेषणसाफल्यम्- एकस्वभावं नित्यमाख्यायत इत्युक्ते क्षणस्थितिखभावमप्येकखभावं भवति, तद्व्यवच्छेदार्थ स्थिरग्रहणम्। स्थिरैकस्वभावमपि मुक्तवस्तु कैश्चिन्नित्यमिष्यत इति तद्व्यवच्छेदार्थमनुत्पन्नग्रहणम् । अनुत्पन्नस्थिरैकस्वभावमपि स्वप्रच्युतिसमयं यावत्कैश्चिनित्यमिष्यत इति तद्व्यवच्छेदार्थमप्रच्युतग्रहणमिति । प्रकृत्येत्यादि । प्रकृत्या स्वभावेन, एकक्षणस्थितिधर्मकं चानित्यमित्यनियमाख्यायते । ततश्च तद्वस्तु यदि नित्यं कथमनित्यम् ? , अनित्यं चेत्कथं नित्यमिति ?, विरोधात् । स्यादारकेत्यादि । स्यादारेका स्यादाशङ्का, नहि नैव, कूटस्थनित्यतयैकरूपतया, नित्यं द्रव्यमभ्युपगम्यतेऽस्माभिः । कुत इत्याहपरिणामानित्यताभ्युपगमात् कारणात् । किन्वेवं नित्यमभ्युपगम्यतइत्याह- पूर्वोत्तरक्षण विभागेन अयं पूर्वः, अयमुत्तरः, अयमनयोः प्रविभागोऽत्यन्तभेदरूप इत्येवंभूतेन, प्रबन्धवृत्त्या हेतुभूतया । नह्यस्य द्रव्यस्य, पर्यायाणामिवोच्छेदः पूर्वोत्तरक्षणप्रविभागेन । कुत इत्याहतद्रूपेण द्रव्यरूपेण, तथाऽप्रतीतेः उच्छेदेनाप्रतीतेः प्रबन्धवृत्त्या । अथवा तद्रूपेण द्रव्यरूपेण, तथाप्रतीतेरनुच्छेदेन प्रतीतेः । एवं च पर्याया एव यस्मात्तत्तत्क्षणस्थितिखभावतया पर्यायरूपेण निरुध्यन्ते विनश्यन्ति । न तु द्रव्यं तत्तत्स्वभावतया तन्निरोधबीजम्, इत्येवं नित्यमभ्युपगम्यते अनित्यतानुविद्धं तदाधारभूतमित्यर्थः । एतदाशङ्कयाह- इयमप्ययुक्ता आरेका, यस्मादेषाप्यनन्तरोदिता, अत्र द्रव्ये, नित्यता न सम्भवति । कुतइत्याह-पर्यायव्यातरिक्तस्य द्रव्यस्यासिद्धेः स्वतः परतश्च । एतदेवाहतथाहीत्यादिना । तथाहि-न पर्यायव्यतिरिक्तं द्रव्यमस्ति । तथानुभवाभावात् न हि पिण्डशिवकादिव्यतिरिक्तं मृद्रव्यमनुभूयते । व्यतिरिक्त Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 288