Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 12
________________ अनेकान्तजयपताका धात् तथानुभवाभावाच्च । न च कार्यद्वारेणापि सदसदूपं वस्तु प्रतिपत्तुं शक्यते । यतो नोभयरूपं कार्यमुपलभ्यते । न च तत्कार्यकरणे प्रवर्त्तमानं केनचिदाकारेण करोति केनचित् न करोति, एकस्य करणाकरणविरोधात् । सर्वात्मना च करणे तद्भावरूपमेव स्यात् । तथाहि-नाभावः कस्यचित् कारणं भवितुमर्हति अभावत्वविरोधात्, तत्कारणत्वे च विश्वमदरिद्रं स्यात् , तत एव कटककुण्डलायुत्पत्तेः । न च तस्मानिरुपाख्यतयाऽविशिष्टात् कस्यचिदेव भावो न सर्वस्येति वक्तुं युज्यते, हेत्वभावात् । अतः श्रद्धागम्यमेवेदं सदसद्रूपं वस्त्विति । तथा चोक्तम् “न च प्रत्यक्षसंवेद्यं कार्यतोऽपि न गम्यते । श्रद्धागम्यं यदि परं वस्त्वेकमुभयात्मकम्" ॥१॥ इहैवाभ्युच्चयमाह-किश्चेत्यादिना । किञ्चायमपरो दोषः-संविनिष्ठाः संवेदनपर्यवसानाः, विषयव्यवस्थितयः विषयमर्यादाः । यदि नामैवं ततः किमित्याह-न च सदसद्रूपं वस्तु संवेद्यते । कुत इत्याह-उभयरूपस्य संवेदनस्याभावात् । एतदेव भावयति- तथाहीत्यादिना । तथाहि--नाक्षजे विज्ञाने इन्द्रियज्ञाने इत्यर्थः । सदसत्त्वे प्रतिभासेते । कुत इत्याह-असत्त्वस्यारूपत्वात् अरसाग्रुपलक्षणमेतत् । रूपत्वे चासत्त्वविरोधात् ; तथानुभवाभावाच नाक्षजज्ञानेन तुच्छानुभवः । एवं प्रत्यक्षेणोभयरूपस्याग्रहणमभिधायानुमानेनाभिधातुमाह-- न चेत्यादि । न च कार्यद्वारेणापि सदसद्रूपं वस्तु प्रतिपत्तुं शक्यते कार्यमत्र समानजातीयमभिप्रेतम् । तथा चाह-यतो नोभयरूपं कार्यमुपलभ्यते । न च तद्वस्तु, कार्यकरणे प्रवर्त्तमानं सत् , केनचिदाकारेण करोति केनचिन्न करोति कार्यम् । कुत इत्याह-एकस्य करणाकरणविरोधात् । सर्वात्मना च करणे कार्यस्य, तद्भावरूपमेव स्याद्वस्तु । तथाहि-नाभावः कस्यचिद्वस्तुनः कारणं भवितुमर्हति । कुन इत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 288