Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 13
________________ खोपज्ञटीकासहिता। अभावत्वविरोधात् सकलशक्तिविकलस्तुच्छोऽयमिति। तत्कारणले चाभावकारणले च, विश्वं जगत् , अदरिद्रं स्यात् , तत एवाभावात्, कटककुण्डलायुत्पत्तेः । न च तस्मादभावात् , निरुपाख्यतया अविशिष्टात्कस्यचिदेव भावो मृदादेरिव घटादेः, न सर्वस्येति वक्तुं युज्यते । कुत इत्याहहेत्वभावात् मृदादेरिव घटादौ प्रतिनियतशक्त्यभावेनेति । अतः श्रद्धागम्यमेवेदं सदसद्रूपं वस्त्विति निगमनम् । तथा चोक्तमिति ज्ञापकमाहन चेत्यादिना । न च प्रत्यक्षसंवेद्यमुभयात्मकं वस्तु, कार्यतोऽपि न गम्यते उक्तवदेतत् । श्रद्धागम्यं यदि परं प्रमाणाविषयत्वेन, वस्त्वेकमुभयात्मकं सदसदात्मकमित्यर्थः ॥ ___ एतेन नित्यानित्यमपि प्रत्युक्तमवगन्तव्यम, विरोधादेव । तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यमाख्यायते, प्रकृत्यैकक्षणस्थितिधर्मकं चानित्यमिति, ततश्च तद् यदि नित्यं कथमनित्यम् ?, अनित्यं चेत्कथं नित्यामिति । स्यादारेका नहि कूटस्थनित्यतया नित्यं द्रव्यमभ्युपगम्यतेऽस्माभिः, परिणामानित्यताभ्युपगमात्, किन्तु पूर्वोत्तरक्षणप्रविभागेन प्रबन्धवृत्त्या । न ह्यस्य पर्यायाणामिवोच्छेदस्तद्रूपेण तथाप्रतीतेः । पर्याया एव हि पर्यायरूपेण निरुध्यन्ते, न तु द्रव्यामिति नित्यमभ्युपगम्यते । इयमप्ययुक्ता, यस्मादेषाप्यत्र नित्यता न सम्भवति, पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः । तथाहि-न पर्यायव्यतिरिक्तं द्रव्यमास्त तथानुभवाभावात्, व्यतिरिक्तभावे वाग्नेकरूपैकवस्तुवादहानिप्रसङ्गः । तथा चोक्तम्-- “पर्यायाभेदतोनित्यं द्रव्यं स्यात् तत्स्वरूपवत् । स्याद्वादविनिवृत्तिश्च नानात्वे सम्प्रसज्यते" ॥१॥ व्यतिरिक्ताव्यातरिक्तपक्षस्तु विरोधाघ्रातत्वात् न्यायबहिभूतत्वादनुरोष्य एवेति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 288