Book Title: Anekant Tattva Mimansa Author(s): Trailokyamandanvijay Publisher: ZZ_Anusandhan View full book textPage 7
________________ अनुसन्धान-५८ इन्द्रियजा-ऽनिन्द्रियजाभ्यामाद्यं द्विधा ॥२.१.१४।। अत्र द्रव्येन्द्रियं गृह्यते, न भावेन्द्रियम् ॥२.१.१५॥ निर्वृत्युपकरणाभ्यां द्रव्येन्द्रियं लब्ध्युपयोगाभ्यां भावेन्द्रियं द्वेधा ॥२.१.१६।। स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणि पञ्च द्रव्येन्द्रियाणि ॥२.१.१७|| न वाक्-पाणि-पाद-पायू-पस्थानि ॥२.१.१८।। न च भौतिकानि ॥२.१.१९॥ स्पर्शनं पृथ्व्यप्तेजोवायुवनस्पतीनां, स्पर्शन-रसने कृम्यादीनां, स्पर्शन-रसन-घ्राणानि पिपीलिकादीनां, स्पर्शन-रसन-घ्राण-चढूंषि भ्रमरादीनां, पञ्चाऽपि नारक तिर्यङ्-नरा-ऽमराणाम् ॥२.१.२०॥ स्पर्श-रस-गन्ध-वर्ण-शब्दप्रतिनियतार्थानि तानि ॥२.१.२१॥ अनिन्द्रियं मनोऽनियतार्थम् ॥२.१.२२॥ अप्राप्यकारित्वं चक्षुर्मनसोः समानम् ॥२.१.२३॥ अवग्रहेहा-ऽवाय-धारणाभिश्चतुर्भेदमेकशः ॥२.१.२४।। व्यञ्जना-ऽर्थाभ्यामवग्रहो द्विधा ॥२.१.२५।। । न चक्षुर्मनसोर्व्यञ्जनं, न च मानम् ॥२.१.२६।। दर्शनद्वाराऽर्थेन्द्रियसन्निपातजोऽवान्तरसामान्यविशिष्टावभास्यवग्रहः ॥२.१.२७।। ईहान्तं दर्शनमित्यपि ॥२.१.२८।। तद्गृहीताथै कविशेषतर्कणमीहा ॥२.१.२९।। तर्कितार्थे विशेषनिष्टङ्कनमवायः ॥२.१.३०॥ दृढतमो धारणा ॥२.१.३१॥ क्षय-क्षयोपशमविशेषादात्ममात्रप्रभवं पारमार्थिकम् ।।२.१.३२।। तद् द्विविधं विकल-सकलभेदात् ॥२.१.३३।। आद्यमवधि-मनःपर्यवाभ्यां द्विधा ॥२.१.३४॥ । तत्राऽऽद्यो रूपिद्रव्यविषयो भव-गुणप्रत्ययाभ्यां द्विधा ॥२.१.३५।। सुर-नारकाणामाद्योऽन्तिमो नर-तिरश्चां षड्भेदः ॥२.१.३६।। द्वितीयो मनोद्रव्यपर्यायालम्बन ऋजु-विपुलमतिभ्यां द्विधा ॥२.१.३७।। स्वावरणक्षयोपशमविशेषप्रभवत्वं तूक्तानां समानम् ॥२.१.३८॥ सांव्यवहारिकस्याऽवधेश्च विपर्ययो, न शेषयोः ॥२.१.३९।। सकलमशेषघातिक्षयसमुत्थं केवलम् ॥२.१.४०।।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18