Book Title: Anekant Tattva Mimansa
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
९६
अनुसन्धान-५८
तथा ॥४.३.२२॥ एवं स्थित्याद्यभावे ॥४.३.२३।। आस्रवनिरोधात्मा संवरोऽपि ॥४.३.२४।। तत्साधनानि गुप्ति-समिति-धर्मा-ऽनुप्रेक्षा-परीषहजय-चारित्राण्यपि ॥४.३.२५।। निर्जराऽपि ॥४.३.२६॥ तत्साधनं तपोऽपि ॥४.३.२७।। अनशना-ऽवमौदर्य-वृत्तिपरिसङ्ख्यान-रसपरित्याग-विविक्तशय्यासन-कायक्लेश
भेदात् षड्विधं बाह्यम् ॥४.३.२८।। प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-व्युत्सर्ग-ध्यानभेदात् षड्विधमभ्यन्तरम्
॥४.३.२९॥ एकान्तनित्यत्वे त्वस्य व्रतमनुपपन्नम् ॥४.३.३०।। हिंसा-ऽनृत-स्तेया-ऽब्रह्म-परिग्रहेभ्यो विरमणं हि तत् ॥४.३.३१॥ तत्त्वे देव-मनुष्य-नरक-तिर्यग्गतयोऽपि न स्युः ॥४.३.३२।। परिणाम्यसौ ॥४.३.३३॥ निरावरणो मुक्तः ॥४.३.३४॥ अशेषकर्मक्षयः परमानन्दो वा मुक्तिः ॥४.३.३५।। सम्यग्दर्शन-ज्ञान-चारित्राणि तत्साधनमिति ॥४.३.३६।।
॥ इति तुर्याध्याये तृतीयः पादः ॥ मूर्त्तिमान् पुद्गलः ॥४.४.१॥ रूपं मूर्तिः, स्पर्शरसगन्धास्तन्नियताः ॥४.४.२।।। अतः शरीर-वाङ्-मनः-प्राणापान-सुख-दुःख-जीवितमरणोपग्रहाः ॥४.४.३॥ शब्द-बन्ध-सौक्ष्य-स्थौल्य-संस्थानभेद-तमश्छायाऽऽतपोद्योता इदमीयाः ॥४.४.४।। एतेनाऽऽकाशगुणत्वादिकं प्रत्युक्तम् ॥४.४.५।। अजघन्यगुणानां स्निग्धरूक्षाणां गुणवैषम्ये व्यधिकादिगुणानां सदृशानाञ्च बन्धो,
न गुणसाम्ये ॥४.४.६॥ देश-प्रदेश-स्कन्धा-ऽणुभेदतः स चतुर्द्धा ॥४.४.७।। स्कन्धसम्बद्धः स्कन्धो देशो द्विप्रदेशादिः ॥४.४.८।। निरंशः स्कन्धसम्बद्धोंऽशः प्रदेशः ॥४.४.९।। देशतानापन्नः सङ्घातः स्कन्धः ॥४.४.१०॥

Page Navigation
1 ... 15 16 17 18