Book Title: Anekant Tattva Mimansa
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
फेब्रुआरी २०१२
नामादिनिक्षेपत्रयं द्रव्यार्थिकनये ॥३.३.१२॥ भावनिक्षेपः पर्यवनये ॥३.३.१३॥ ऋजुसूत्रे नामभावावेवेत्येके ॥३.३.१४॥ सङ्ग्रह-व्यवहारयोः स्थापनावर्जा इत्यन्ये [इति] ॥३.३.१५॥ ॥ इति तृतीयाध्याये तृतीयः पादः ॥
उक्तानां कथायां परार्थानुमानतयोपयोगः ॥३.४.१॥
कथा वाद एव, न वाद - जल्प-वितण्डाभेदात् त्रिधा ॥३.४.२॥
साधनदूषणवचनं वादः ॥३.४.३॥
प्रतिपक्षधर्मव्यवच्छेदेन स्वेष्टधर्मस्थापनमस्य फलम् ॥३.४.४॥
विजिगीषोत्थेऽस्मिन् वादि-प्रतिवादि - सभ्य - सभापतयश्चत्वारोऽङ्गानि, अन्यत्र
वादि-प्रतिवादिनौ क्वचित् सभ्योऽपि ॥३.४.५।। वादि-प्रतिवादिनौ प्रारम्भक - प्रत्यारम्भकौ ॥३.४.६॥ तौ जिगीषु-तत्त्वनिर्णिनीषुभेदात् प्रत्येकं द्विधा ॥३.४.७॥ तत्त्वनिणिनीषुः स्वात्मनि परत्र चेति द्विधा ॥३.४.८।। वादिप्रतिवादिसिद्धान्ताभिज्ञत्व-माध्यस्थ्यादिगुणवानुभयाभिमतः सभ्यः ॥३.४.९॥ प्रज्ञाज्ञैश्वर्यादिगुणवान् सभापतिः ॥३.४.१०॥
९३
प्रमाणत: स्वपक्षस्थापन - परपक्षखण्डने वादि-प्रतिवादिनोः, तयोर्वादस्थानककथाविशेषाङ्गीकारकरणा -ऽग्रवादोत्तरवादनिर्देशादिकं सभ्यस्य, वाद्याद्यभिहितावधार-कलहव्यपोहादिकं सभापतेश्च कर्म ॥३.४.११॥
सजिगीषुके वादे यावत्सभ्यापेक्षमन्यत्र च यावत्तत्वनिर्णयं यावत्स्फूर्त्ति च वक्तव्यमिति ॥३.४.१२।।
॥ इति तृतीयाध्याये तुर्यः पादः ॥
॥ इति [नय-निक्षेप-वादनिरूपणाख्यः ] तृतीयोऽध्यायः समाप्तः ॥
॥ अथ चतुर्थोऽध्यायः ॥ अस्तित्वनास्तित्वाद्यनन्तधर्मात्मकं वस्तु तत्त्वम् ॥४.१.१॥
तद् द्रव्य-पर्यायाभ्यां द्विधा ॥४.१.२ ॥
नाऽभावस्तत्त्वान्तरं, प्रागभावादिचतुर्विधस्याऽपि तस्य भाव एवाऽन्तर्भावात्
॥४.१.३॥

Page Navigation
1 ... 12 13 14 15 16 17 18