Book Title: Anekant Tattva Mimansa
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 12
________________ फेब्रुआरी २०१२ ९१ सन्दिग्धाभाववद्द्वया-ऽव्यतिरेका- ऽप्रदर्शितव्यतिरेक-विपरीतव्यतिरेकै द्वितीयश्च नवधा ॥२.४.२४॥ उक्तविपरीते उपनय - निगमनाभासे ॥ २.४.२५ ॥ अनाप्तोक्तजं ज्ञानमागमाभासम् ॥२.४.२६॥ विषयाभासादयस्तूक्तविपरीता इति ॥२.४.२७॥ ॥ इति द्वितीयाध्याये तुर्यः पादः ॥ ॥ इति [प्रमाणविशेषनिरूपणाख्यो ] द्वितीयोऽध्यायः ॥ ॥ अथ तृतीयोऽध्यायः ॥ अंशान्तराप्रतिक्षेपी वस्त्वंशमात्रग्राही अभिप्रायविशेषो नयः ॥ ३.१.१॥ न प्रमाणमेव, स्वरूपादिभेदात् ॥३.१.२॥ स नैगम-सङ्ग्रह-व्यवहार- -र्जुसूत्र - शब्द- समभिरूढैवम्भूतभेदतः सप्तधा ॥ ३.१.३।। समभिरूढैवम्भूतयोः शब्द एवाऽन्तर्भावात् पञ्च नया इत्येके ॥३.१.४॥ सङ्ग्रहस्याऽपि नैगमेऽनुप्रवेश इति चत्वार इत्यपरे ॥३.१.५॥ आद्यास्त्रयो द्रव्यार्थिकाश्चत्वारोऽन्तिमाः पर्यायार्थिकाः ॥३.१.६॥ ऋजुसूत्रस्याऽपि द्रव्यार्थिकत्वमित्येके ॥३.१.७॥ सामान्यविशेषोभयादिग्राही परामर्शो नैगमः ॥ ३.१.८॥ स प्रधानोपसर्जनभावेन धर्मद्वय-धर्मिद्वय-धर्मधर्म्युभय-गोचरत्वतस्त्रिधा ॥३.१.९॥ सामान्यमात्रगोचर: सङ्ग्रहः ॥३.१.१०॥ परापरभेदाद् द्विधा ॥३.१.११॥ आद्यः सत्त्वाख्यपरसामान्यग्राही, द्वितीयस्तु द्रव्यत्वाद्यवान्तरसामान्यग्राही ॥३.१.१२॥ विधिपूर्वक-सङ्ग्रहगृहीतार्थविभाजको व्यवहारः ॥३.१.१३॥ प्राधान्येन वर्त्तमानक्षणस्थायि - पर्यायमात्रग्राही ऋजुसूत्रः ॥३.१.१४॥ कालादिभेदाच्छब्दस्याऽर्थभेदाभ्युपगन्ता शब्दः ॥३.१.१५।। व्युत्पत्तिनिमित्तभेदतः पर्यायशब्दार्थभेदाभ्युपगन्ता समभिरूढः ॥३.१.१६॥ व्युत्पत्तिनिमित्तक्रियाविष्टा - ऽर्थवाच्यत्वाभ्युपगन्ता एवम्भूतः ॥३.१.१७॥ पूर्वपूर्वेषामधिकविषयत्वमुत्तरोत्तरेषां न्यूनविषयत्वं चैषु समानम् ॥३.१.१८॥ पूर्वे चत्वारोऽर्थनयाः शेषा: शब्दनया इति ॥ ३.१.१९॥ ॥ इति तृतीयाध्याये प्रथमः पादः ॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18