Book Title: Anekant Tattva Mimansa
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ ९० अनुसन्धान-५८ आद्यं प्रमाणवाक्यं, द्वितीयं नयवाक्यमिति ॥२.३.२१॥ ॥ इति द्वितीयाध्याये तृतीयः पादः ॥ प्रमाणप्रसाध्यं फलमानन्तर्य-पारम्पर्याभ्यां द्विधा ॥२.४.१॥ अज्ञाननिवृत्तिराद्यं सर्वेषाम् ॥२.४.२॥ केवलस्यौदासीन्यमन्येषामुपादानहानोपेक्षाबुद्धयो द्वितीयम् ॥२.४.३।। प्रमाणतः प्रमातुश्च भिन्नमभिन्नं च तत्, तत्त्वान्यथानुपपत्तेः ॥२.४.४॥ प्रमाणस्य स्वरूपादिविपरीतस्तदाभासः ॥२.४.५।। स्वरूप-विषय-फल-सङ्ख्याभासतश्चतुर्द्धा ॥२.४.६।। आद्योऽज्ञानाद्यात्मकः ॥२.४.७।। प्रत्यक्षाभासादिस्त्वस्य प्रपञ्चः ॥२.४.८॥ केवल-मनःपर्यववर्जं प्रत्यक्षवदवभासमानं ज्ञानं प्रत्यक्षाभासम् ॥२.४.९।। अननुभूते स्मरणाभासम् ॥२.४.१०।। तुल्यादौ सङ्कलनाभासम् ॥२.४.११।। अन्यथोपपत्तौ तर्काभासम् ॥२.४.१२।। पक्षाभासादिजमनुमानाभासम् ॥२.४.१३।। पक्षाभास-लिङ्गाभास-दृष्टान्ताभासो-पनय-निगमनाभासाः पञ्च ॥२.४.१४।। आद्यः प्रतीत-निराकृता-ऽनभीप्सितसाध्यविशेषणैस्त्रिधा ॥२.४.१५।। निराकरणञ्च साध्यस्य प्रत्यक्षानुमानादिभिः ॥२.४.१६।। द्वितीयोऽसिद्ध-विरुद्धा-ऽनैकान्तिकभेदतस्त्रिप्रकारः ॥२.४.१७॥ असिद्धान्यथानुपपत्तिकोऽसिद्धः ॥२.४.१८।। सोऽन्यरो(?न्यो)भयासिद्धाभ्यां द्विप्रकारः ॥२.४.१९॥ साध्यविपर्ययान्यथानुपपत्तिको विरुद्धः ॥२.४.२०॥ अन्यथानुपपत्तिविकलोऽनैकान्तिकः ॥२.४.२१।। निर्णीत-सन्दिग्धविपक्षवृत्तिकभेदाद् द्विधा ॥२.४.२२।। साधर्म्य-वैधाभ्यां द्विप्रकारो दृष्टान्ताभासः ॥२.४.२३।। साध्यविकल-लिङ्गविकल-तदुभयविकल-सन्दिग्धसाध्य-सन्दिग्धलिङ्ग सन्दिग्धोभया-ऽनन्वया-ऽप्रदशितान्वय-विपरीतान्वयैराधोऽसिद्धसाध्याभावाऽसिद्धलिङ्गाभावाऽसिद्धाभाववद्वय-सन्दिग्धसाध्याभाव-सन्दिग्धलिङ्गाभाव

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18