Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 7
________________ उत्तराध्ययन-मूलसूत्रम्-१-१/१ प्रमाणत्वमभिधाय तदभिधानस्यानर्थकत्वमिह कैश्चिदुक्तं, तदसाधु, शब्दस्याप्रमाणत्वे तत्प्रामाण्यमूलत्वेन सकल-व्यवहाराणामुच्छेदप्रसङ्गात्, उक्तं हि "लोकिकव्यवहारोऽपि, यस्मिन्न व्यवतिष्ठते । तत्र साधुत्वविज्ञानं, व्यामोहोपनिबन्धनम्॥"इति तथा च शास्त्रादौ फलादिप्रतिपादिका पूर्वाचार्यगाथा "तस्स फलजोगमंगलसमुदायत्था तहेव दाराहं । तब्भेयविरुत्तिक्कमपयोयणाइं च वच्चाई।।" फलाभिलाषिणां च सकलप्रेक्षावतां प्रवृत्तिरिति प्रथमतः फलस्याभिधानं, तत्रापि किमिदं सम्बद्धमुतासम्बद्धमिति विचारत एव विपश्चितः प्रवर्तन्त इति तदनु योगस्य, इत्यादि क्रमप्रयोजनं सर्वत्र योज्यं, तत्र फलं कर्तुः श्रोतुश्चाव्यवहितं विनेयानुग्रहो यथावदर्थावबोधश्च, व्यवहितं पुनरुभयोरपि तदुत्तरोत्तरगुणप्रकर्षप्राप्त्याऽपवर्गावाप्तिरिति । योगः सम्बन्धः, स च हेतुतः फलतश्च, तत्र हेतुत उत्तराध्ययनानुयोगस्य साक्षात्कृतधर्माणः सूत्रकृत एव यथास्वं प्रणेतारः ततस्तदवबोधिततदर्थास्तच्छिष्याः ततोऽपि तद्विनेयास्तावद् यावद् भगवान् भद्रबाहुः ततो भाष्यकृतस्ततश्चूर्णिकृतः ततोऽपि वृत्तिकृतो यावदस्मद्गुरव इति गुरुपर्वक्रमलक्षणः । फलतस्तूपायोपेयभावरूपः अभिहितफलस्योपेयत्वात् प्रस्तुतानुयोगस्य च तदुपायत्वादिति । मथ्नातिविनाशयति शास्त्रपारगमनविघ्नान् गमयति-प्रापयति शास्त्रस्थैर्य लालयति चश्लेषयति तदेव शिष्यप्रशिष्यपरम्परायामिति मङ्गलं, यद्वा मन्यन्ते अनापायसिद्धिं गायन्ति प्रबन्धप्रतिष्ठिति लान्ति वाऽव्यवच्छिन्नसन्तानाः शिष्यप्रशिष्यादयः शास्त्रमस्तिन्निति मङ्गलम्, आदिमध्यावसानवर्तिनस्तस्योक्तरूपार्थप्रसाधकत्वेन प्रसिद्धत्वात्, उक्तं हि "तं मंगलमाईए मज्झे पज्जंतए य सत्थस्स। पढमं सत्थस्साविग्धपारगमनाय निद्दिटुं॥१॥ तस्सेव उ थिज्जत्थं मज्झिमयं अंतिमं च तस्सेव। अव्वोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ।।२।।" तच्च नामादिचतुर्भेदं, तत्र मङ्गलमिति नामैव नाममङ्गलं, स्थापनामङ्गल मङ्गलकार: मङ्गलानि च दर्पणादीनि, यथोक्तम् "दप्पणभद्दासण वद्धमाण वरकलसमच्छसिरिवच्छा। सोच्छिय नंदावत्ता लिहिया अट्ठट्ठ मंगलगा।" इति द्रव्यभावमङ्गले त्वावश्यकभाष्यानुसारतोऽवबोद्धव्ये । तत्र चेह भावमङ्गलेनाधिकार:, तच्च कृतमेव, नन्दिरूपत्वात् तस्य, नन्दिव्याख्यानपूर्वकत्वाच्च सकलानुयोगस्य, अपवादत उत्क्रमेणापि यदाऽनुयोगस्तदा भावत आदिमङ्गलं 'संजोगा विप्पमुक्कस्स अनगारस्स'त्ति अनगारग्रहणं, मध्यमङ्गलं, 'कपिल्ले नयरे राया' इत्यादिनाऽनगारगुणवर्णनम्, अन्त्यमङ्गलम् ‘इइ पाउकरे बुद्धे' इत्यादिना बुद्धाद्यभिधानं । समुदायो-वर्णपदवाक्यश्लोकाध्ययनकदम्बकात्मक श्रुतस्कन्धरूपतस्याभिधेयोऽर्थः समुदायार्थः, स चेह धर्मकथात्मकः, विशेषतस्त्वेनं 'पढमे विनओ' इत्यादिना नियुक्तिकार एव वक्ष्यति । द्वाराणीति प्रक्रमादनुयोगद्वाराणि, तत्र Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 388