Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ अध्ययनं - १, [ नि. ४] नि. [४] ७ अंगप्पभवा जिनभासिया य पत्तेयबुद्धसंवाया। बंधे मुक्खे य कया छत्तीसं उत्तरज्झयणा ॥ वृ. अङ्गाद् - दृष्टिवादादेः प्रभव- उत्पत्तिरेपामिति अङ्गप्रभवानि, यथा परीपहाध्ययनं, 'कम्मप्पवायपुव्वे सत्तरसे पाहुडंमि जं सुत्तं । समयं सोदाहरणं तं चेव इहंपि नायव्वं ॥" 44. जिनभाषितानि यथा द्रुमपुष्पिकाऽध्ययनं, तद्धि समुत्पन्नकेवलेन भगवता महावीरेण प्रणीतं, यद्वक्ष्यति-‘“तंनिस्साए भगवं सीसाणं देइ अनुसट्ठि"त्ति, 'च: ' समुच्चये, प्रत्येकबुद्धाश्च संवादश्च प्रत्येकबुद्धसंवादं तस्मादुत्पन्नानीति शेषः, तत्र प्रत्येकबुद्धा: - कपिलादयः तेभ्य उत्पन्नानि यथा कापिलीयाध्ययनं, वक्ष्यति हि - 'धम्मट्टया गीयं' तत्र हि कपिलेनेति प्रक्रमः, संवाद :सङ्गतप्रश्नोत्तरवचनरूपस्तत उत्पन्नानि यथा - केशिगौतमीयं, वक्ष्यति च-- "गोतमकेसीओ य संत्रायसमुट्ठियं तु जम्हेय" मित्यादि । ननु स्थविरचितचितान्येवैतानि, यत आह चूर्णिकृत् -"सुत्ते थेराण अत्तागमो "त्ति नन्द्यध्ययनेऽप्युक्तम्--‘“जस्स जेत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मयाए परिणामियाए चउव्विहाए बुद्धीए उववेया तस्स तेत्तियाइं पइन्नगसहस्साइं " प्रकीर्णाकानि चामूनि तत्कथं जिनदेशितत्वादि न विरुध्यते ?, उच्यते, तथास्थितानामेव जिनादिवसचसामिह दृब्धत्वेन तद्देशितत्वाद्युक्तमिति न विरोधः । बन्ध- आत्मकर्मणोरत्यन्तसंश्लेषस्तस्मिन्, मोक्षः तयोरेवाऽऽत्यन्तिकः पृथग्भावस्तस्मिश्च कृतानि, कोऽभिप्रायः ? - यथा बन्धो भवति यथा च मोक्षस्तथा प्रदर्शकानि, तत्र बन्धे यथा-‘“आणाअनिद्देसकरेत्ति" मोक्षे यथा - "आणानिद्देसकरे "त्ति, आभ्यां यथाक्रममविनयो विनयश्च प्रदर्श्यते, तत्राविनयो मिथ्यात्वाद्यविनाभूतत्वेन बन्धस्य विनयश्चान्तरपौरुषत्वेन मोक्षस्य कारणमिति तत्त्वतस्तौ यथा भवतस्तदेवोक्तं भवति, मोक्षप्राधान्येऽपि बन्धस्य प्रागुपादानमनादित्वोपदर्शनार्थं, यद्वा 'बंधे मोक्खे य त्ति' चशब्द एवकारार्थो भिन्नक्रमश्च, ततो बन्ध एव सति यो मोक्षस्तस्मिन् कृतानि, अनेनानादिमुक्तमतव्यवच्छेदश्च कृतः, तत्र हि मोक्षशब्दार्थानुपपत्तिः सकलानुष्ठानवेफल्यापत्तिश्च, किमेवं कतिचिदेव ?, नेत्याह- 'पट्त्रिंशत्' षट्त्रिंशत्सङ्ख्यानि, कोऽर्थः ? - सर्वाणि उत्तराध्ययनानि इति गाथार्थः । इत्थं प्रसङ्गत उक्तरूपं संशयमपाकृत्याध्ययननिक्षेपं विनेयानुग्रहाय तत्पर्यायनिक्षेपातिदेशं चाह - नि. [५] नामं ठवणज्झयणे दव्वज्झयणे य भावज्झयणे । एमेव य अज्झीणे आयज्झवणेविय तहेव ॥ वृ. 'नामं ठवणज्झयणे'त्ति प्रत्येकमध्ययनशब्दसम्बन्धान्नामाध्ययनं स्थापनाध्ययनं द्रव्याध्ययनं च स्य भिन्नक्रमत्वाद् भावाध्ययनं च तत्र नामस्थापने गतार्थे, द्रव्याध्ययनमागमतो ज्ञातानुपयुक्त:, :, नोआगमतो ज्ञशरीरभव्यशरीरे तद्वयतिरिक्तं च पुस्तकादिन्यस्तं, भावाध्ययनमागतो ज्ञातोपयुक्तः, नोआगमतस्तु प्रस्तुताध्ययनान्येव, आगमैकदेशत्वादेषाम् । एवं चाक्षीणमायः क्षपणाऽपि च तथैव, कोऽर्थः ? - अध्ययनवदेतान्यपि नामादिभेदभिन्नान्येव ज्ञेयानीति गाथार्थः ।। साम्प्रतं नामाध्ययनादीनि त्रीणि प्रसिद्धान्येवेति मन्यमानो नियुक्तिकारो निरुक्तिद्वारेणे नोआगमतो भावाध्ययनं व्याख्यातुमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 388