Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 18
________________ अध्ययनं-१,[नि. २८] प्रमीयते-परिच्छिद्यतेऽनेनेति प्रमाणं, तच्च द्रव्यक्षेत्रकालभावभेदाच्चतुर्विधं, तत्रास्य क्षायोपशमिकभावरूपत्वेन भावप्रमाणेऽवतारः, यत आह "दव्वाइ चउब्भेयं पमीयए जेन तं पमाणंति । इणमज्झयणं भावोत्ति भावमाणे समोयरइ ।।" भावप्रमाणं च गुणनयसङ्ख्याभेदतस्त्रिधा, तत्रास्य गुणप्रमाणसङ्ख्याप्रमाणयोरेवावतारः, नयप्रमाणे तु यद्यपि श्रुतकेवलिनोक्तम्"अहिगारो तिहि उगोसन'ति, तथा नत्थि नएहि विहूणं सुत्तं अत्थो व जिनमए किं च । आसज्ज उ सोयारं नए नयविसारओ बूया ।।" तथापि सम्प्रति तथाविधनयविचारणाव्यवच्छेदतोऽनवतार एव, तथा च तेनैव भगवतोक्तम् मूढनइयं सुयं कालियं तु न नया समोयरंति इहं । अपहुत्ते समोयारो नत्थि पहुत्ते समोयारो ॥१॥" (तथा)-"जावंति अज्जवयरा अपहुत्तं कालियोनुओगस्स। तेनारेण पहुत्तं कालियसुयदिट्टिवाए य ॥२॥" महामतिनाऽप्युक्तं-मूढनयं तु न संपइ नयप्पमाणेऽवयारो से" । गुणप्रमाणं तु द्विधाजीवगुणप्रमाणजीवगुणप्रमाणं च, तत्रास्य जीवोपयोगरूपत्वाज्जीवगुणप्रमाणेऽवतारः, तस्मिन्नपि ज्ञानदर्शनचारित्रभेदतस्त्यात्मकेऽस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानाऽऽगमात्मके प्रकृताध्ययनस्याप्तोपदेशरू पतयाऽऽगमप्रमाणे, तत्रापि लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रार्थोभयात्मनि, तथा चाह-- "जीवानन्नत्तणओ जीवनुनेनेह भावओ नाणे। लोउत्तरसुत्तत्थो भयागमे तस्स भावाओ॥" तत्राप्यात्मानन्तरपरम्परागमभेदतस्त्रिविधे अर्थतस्तीर्थकरगणधरतदन्तेवासिनः सूत्रतस्तु स्थविरतच्छिप्यतत्प्रशिष्यानपेक्षय यथाक्रममस्यात्मानन्तरपरम्परागमेष्ववतारः, सङ्ख्याप्रमाणमनुयोगद्वारादिषु प्रपञ्चितमिति तत एवावधारणीयं, तत्र चास्य परिमाणसङ्ख्यायामवतारः, तत्रापि कालिक श्रुतदृष्टिवादश्रुतपरिमाणभेदतो द्विभेदायां कालिक श्रुतपरिमाणसङ्ख्यायां सङ्ख्यातपरिमाणात्मिकायां पर्यायापेक्षया त्वनन्तपरिमाणात्मिकायाम्, अनन्तगमपर्यायत्वादागमस्य, तथा चाह-"अनंता गमा अनंता पज्जवा" इत्यादि। वक्तव्यता-पदार्थविचारः, सा च खपरोभयसमयभेदतस्त्रिधा, तत्र स्वसमयः-अर्हन्मतानुसारिशास्त्रात्मकः, परसमय:कपिलाद्यभिप्रायानुवतिग्रन्थस्वरूपः, उभयसमयस्तुभयमतानुगतशास्त्रस्वभावः, तत्रास्य स्वसमयवक्तव्यतायामेवावतारः, स्वसमयपदार्थानामेवात्र वर्णनात्, यत्रापि परोभयसमयपदार्थवर्णनं तत्रापि स्वसमयवक्तव्यतैव, परोभयसमययोरपि सम्यग्दृष्टिपरिगृहीत्वेन स्वसमयत्वात्, अत एव सर्वाध्ययनानामपि स्वसमयवक्तव्यतायामेवावतारः, तदुक्तम् "परसमओ उभयं वा सम्मद्दिट्टिस्स ससमओ जेणं। तो सव्वज्झयणाई ससमयवत्तव्वनिययाई।"ति अर्थाधिकारः ‘पढमे विनओ' इत्यनेन स्वत एव नियुक्तिकृताऽभिहित इति नोच्यते । इह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 388