Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
उत्तराध्ययन-मूलसूत्रम्-१-१/१ नि.[६] अज्झप्पस्साणयणं कम्माणं अवचओ उवचियाणं।।
अनुवचओ व नवाणं तम्हा अज्झयणमिच्छंति ॥ ७. 'अज्झप्पस्स'त्ति सूत्रत्वादध्यात्ममात्मनि, कोऽर्थः?-स्वस्वभावे, आनीयतेऽनेनेति आनयनं प्रस्तावादात्मनोऽध्ययनं, निरुक्तिविधिना चात्माकारनकारलोपः, कुत एतदित्याहयतः 'कर्मणां' ज्ञानावरणीयादी नाम् 'अपचयः' चयापगमोऽभाव इत्यर्थः, 'उपचितानां' प्राग्बद्धानाम् 'अनुपचयश्च' अनुपचीयमानताऽनुपादानमितियावत्, 'नवानां' प्रत्यग्राणां, कोऽर्थः? -प्रारबद्धानाम्, एतदुपयुक्तस्येति गम्यते, उपसंहारमाह-तस्मात् प्राग्बद्धबध्यमानकर्माभावेनाऽऽत्मनः स्वस्वभावानयनाद्धेतो: अध्ययनम् 'इच्छन्ति' अभ्युपगच्छन्ति, पूर्वसूरय इति गम्यते, यद्वाऽध्यात्ममिति रूढितो मनः, तच्च प्रस्तावात् शूभं, तस्याऽऽनयनमध्ययनम्, आनीयते ह्यनेन शुभं चेतः, अस्मिन् उपयुक्तस्य वैराग्यभावात्, शेषं प्राग्वत्, नवरंवैराग्यभावात् कर्मणामिति क्लिष्टानामिति गाथार्थः । निरुक्त्यन्तरेणैतदेव व्याख्यातुमाहनि.[७] अहिगम्मति व अत्था अनेन अहियं व नयनमिच्छंति।
अहियं व साहु गच्छइ तम्हा अज्झयणमिच्छंति॥ व. 'अधिगम्यन्ते वा' परिच्छिद्यन्ते वा 'अर्था' जीवादयः अनेनाधिकं वा नयनं-प्रापणमर्थादात्मनि ज्ञानादीनामनेन इच्छन्ति, विद्वासं इति शेषः ‘अधिकम्' अर्गलं शीघ्रतरमितियावत्, 'वा' सर्वत्र विकल्पार्थः, 'साधु'त्ति साधयति पौरुषेयीभिविशिष्टक्रियाभिरपवर्गमिति साधुः 'गच्छति' यात्यर्थान्मुक्तिम्, अनेनेत्यत्रापि योज्यते, यस्मादेवमेवं च ततः किमित्याह-तस्मादध्ययनमिच्छन्ति, निरुक्तविधिनाऽर्थनिर्देशपरत्वाद्वाऽस्य, अयतेरेतेऽधिपूर्वस्याध्ययनम्, इच्छन्तीति चाभिधानं सर्वत्र सूत्रार्थाबाधया व्याख्याविकल्पानां पूर्वाचार्यसम्मतत्वेनादुष्टत्वख्यापनार्थमिति गाथार्थः ।। नामाक्षीणादित्रयं प्रतीतमेवेति दृष्टान्तद्वारेण भावाक्षीणमाहनि.[८] जह दीवा दीवसयं पईप्पए सो य दीप्पए दीवो।
दीवसमा आयरिया अप्पं च परं च दीवंति ।। वृ. यथा दीपाद्दीपशतं 'प्रदीप्यते' ज्वलति सोऽपि च दीप्यते दीपो, न पुनरन्यान्यदीपोत्पत्तावपि क्षीयते, तथा किमित्याह-दीपसमा आचार्या 'दीप्यन्ते' समस्तशास्त्रार्थविनिश्चयेन स्वयं प्रकाशन्ते 'परंच' शिष्यं 'दीपयन्ति' शास्त्रार्थप्रकाशनशक्तियुक्तं कुर्वन्ति, इह च 'तात्स्थ्यात् तव्यपदेश' इत्याचार्यशब्देन श्रुतज्ञानमेवोक्तं, भावाक्षीणस्य प्रस्तुतत्वात्तस्यैव चाक्षयत्वसम्भवादिति गाथार्थ ।। नामाऽऽयादयस्त्रयःसुज्ञाना इति भावायं व्याचष्टेनि.[९] भावे पसत्थमियरो नाणाई कोहमाइओ कमसो।
आउत्ति आगमुत्ति य लाभुत्ति य हुंति एगट्ठा ॥ वृ.'भावे' विचार्ये इति शेषः, प्रशस्त: मुक्तिपदप्रापकत्वेन 'इतरः' अप्रशस्तो भवनिबन्धनत्वेन, प्रक्रमादायः, किंरूप: पुनरयं द्विविधोऽपीत्याह-'ज्ञानादिः' आदिशब्दाद्दर्शनादिपरिग्रहः, 'कोहमाइओ'त्ति मकारस्यालाक्षणिकत्वात् क्रोधादिकः, आदिशब्दान्मानादिपरिग्रहः, 'कमसो'त्ति आर्षत्वात् क्रमतः, किमुक्तं भवति?-प्रशस्तो ज्ञानादिः, अप्रशस्तः क्रोधादिः । इह च ज्ञानादेः क्रोधादेश्च आयत्वमायविषयत्वाद्विषयविषयिनोरभेदोपचारेण आयते तमि-,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 388