Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 8
________________ प्राभृतं १, प्राभृतप्राभृतं - 119 11 ॥२॥ ॥३॥ ॥ ४ ॥ ॥५॥ नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः १६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् (सटीकं) पंचमं उपाङ्गम् मूलसूत्रम् + मलयगिरिआचार्य विरचिता वृत्तिः ) यथास्थितं जगत्सर्वमीक्षते यः प्रतिक्षणम् । श्रीवीराय नमस्तस्मै, भास्वते परमात्मने ॥ श्रुतकेवलिनः सर्वे, विजयन्तां तमश्छिदः । येषां पुरो विभान्ति स्म, खद्योता इव तीर्थिकाः ॥ जयति जिनवचनमनुपममज्ञानतकमःसमूहरविबिम्बम् । शिवसुखफलकल्पतरुं प्रमाणनयभङ्गमबहुलम् ॥ सूर्यप्रज्ञप्तिमहं गुरूपदेशानुसारतः किञ्चित् । विवृणोमि यथाशक्ति स्पष्टं स्वपरोपकाराय ॥ अस्या निर्युक्तिरभूत् पूर्वं श्रीभद्रबाहुसूरिकृता । कलिदोषात् साऽनेशद् व्याचक्षे केवलं सूत्रम् ।। प्राभृतं - १ तत्र तस्यां नगर्यां यस्मिनुद्याने यथा भगवान् गौतमस्वामी भगवतस्त्रिलोकीपतेः श्रीमन्महावीरस्यान्ते सूर्यवक्तव्यतां पृष्टवान् यथा च तस्मै भगवान् व्यागृणाति स्म तथोपदिदर्शयिषुः प्रथमतो नगर्युद्यानाभिधानपुरस्सरं सकलवक्तव्यतोपक्षेपं वक्तुकाम इदमाह मू. (१) नमो अरिहंताणं ॥ ते णं काले णं ते णं समए णं मिथिला नाम नयरी होत्था रिद्धत्थिमियसमिद्धा पमुइतजणजाणवया जाव पासादीया ॥ ४ तीसे णं मिहिलाए नयरीए यहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं माणिभद्दे नामं चेइए होत्था वण्णओ । तीसे णं मिहिलाए जितसत्तू राया, धारिणी देवी, वण्णओ, ते णं काले णं ते णं समए णं तंमि माणिभद्दे चेइए । सामी समोसढे, परिसा निग्गता, धम्मो कहितो, पडिगया परिसा । जाव राजा जामेव दिसिं पादुब्भूए तामेव दिसिं पडिगते । वृ. 'तेणंकाले 'मित्यादि, त इति प्राकृत शैलीवशात् तस्मिन्निति द्रष्टव्यं, अस्यायमर्थो - यदा भगवान् विहरति स्म तस्मिन् णमिति वाक्यालङ्कारे ध्ष्टश्चान्यत्रापि णंशब्दो वाक्यालङ्कारार्थे यथा 'इमाणं पुढवी' इत्यादाविति, काले अधितावसर्पिणीचतुर्थभागरूपे, अत्रापि णंशब्दो वाक्या For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 340