Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
प्राभृतं १, प्राभृतप्राभृतं - १
अत्र 'सव्वखुड्डाग' ति सर्वेभ्योऽप्यन्येभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको - लघुरायामविष्कम्भाभ्यां योजनलक्षप्रमाणत्वात्, शेषं प्रायः सुगमं परिधिपरिमाणं गणितं च क्षेत्रसमासटीकातः परिभावनीयं ।
'ता' इति ततो यदा णमिति पूर्ववत्, सूर्य सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चारं चरति तदा णमिति प्राग्वत् उत्तमकाष्ठाप्राप्तोऽत्र काष्ठाशब्दः प्रकर्षवाची परमप्रकर्षप्राप्तो यतः परमन्योऽधिको न भवति स इत्यर्थः, 'उक्कोस' त्तिउत्कर्षतीत्युत्कर्ष उत्कर्ष एवोत्कर्षकः उत्कृष्ट इत्यर्थः, अष्टादशमुहूर्तो दिवसो भवति, तस्मिन्नेव च सर्वाभ्यन्तरे मण्डले सूर्ये चारं चरति जघन्या - सर्वलध्वी द्वादशमुहूर्त्ता रात्रिः, एषोऽहोरात्रः पाश्चात्यय सूर्यसंवत्सरस्य पर्यवसानं, ततः स सूर्यस्तस्मात्सर्वाभ्यन्तरान्मण्डलान्निष्क्रमन्नवं सूर्य संवत्सरमाददानः - प्रवर्त्तमानः प्रथमे अहोरात्रे 'अमितरानंतर' न्ति सर्वाभ्यन्तरान्मण्डलादनन्तरं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति ततो यदा सूर्योऽभ्यन्तरान्तरं - सर्वाभ्यन्तरान्मण्डलादनन्तरं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति ततो यदा सूर्योऽभ्यन्तरानन्तरंसर्वाभ्यन्तरान्मण्डलादनन्तरं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा अष्टादशमुहूर्तो दिवसो द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यामूनो भवति, द्वाभ्यां च मुहूर्तैकषष्टिभागाभ्यामधिका द्वादशमुहूर्ता रात्रिः, कथमेतदवसीयते इति चेत् ?, उच्यते ।
१९
इहैकं मण्डलमेकेनाहोरात्रेण द्वाभ्यां सूर्याभ्यां परिसमाप्यते, एकैकश्च सूर्य प्रत्यहोरात्रं मण्डलस्य त्रिंशदधिकोऽष्टादशशतसङ्ख्यान् भागान् परिकल्प्य एकैकं भागं दिवसक्षेत्रस्य रात्रिक्षेत्रस्य वा यथायोग्यं हापयिता वर्द्धयिता वा भवति, स चैको मण्डलगतस्त्रिंशदधिकाष्टादशशततमो भागो द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यां गम्यते, तथाहि - तानि मण्डलगतानि त्रिंशदधिकान्यष्टादशशतानि भागानां द्वाभ्यां सूर्याभ्यामेकेनाहोरात्रेण गम्यते, अहोरात्रश्च त्रिंशन्मुहूर्तप्रमाणः, ततः सूर्यद्वयापेक्षया षष्टिर्मुहूर्त्ता लभ्यन्ते ततस्त्रैराशिककर्म्मावकाशः, यदि षष्टया मुहूर्तैरष्टादश
शतानि त्रिंशदधिकानि मण्डलस्य भागानां गम्यते तत एकेन मुहूर्त्तेन किं गम्यते ?, अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेर्गुणनाज्जातानि तान्येवाष्टादश शतानि त्रिंशदधिकानि तेषामाद्येन राशिना षष्टिलक्षणेन भागो हियते लब्धाः सार्द्धास्त्रिंशद्भागाः, एतावन्मुहूर्त्तेन गम्यते, मुहूर्त्तश्चैकषष्टिभागीक्रियते तत आगतमेको भागो द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यां गम्यते, यदिवा यदि त्र्यशीत्यधिकेनाहोरात्रशतेन षट् मुहूर्त्ता हानौ वृद्धौ वा प्राप्यन्ते तत एकेनाहोरात्रेण किं प्राप्यते ?,अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिर्गुण्यते, जातास्त एव षट्, तेषां त्र्यशीत्यधिकेन शतेन भागहरणं, अत्रोपरितनराशेः स्तोकत्वाद्भागो न लभ्यते ततश्छेद्यच्छेदकराश्योस्त्रिकेनापवर्त्तना, जात उपरितनो राशिर्द्विकरूपोऽधस्तन एकषष्टिरूपः, आगतं द्वावेकषष्टिभागौ मुहूर्त्तस्य एकस्मिन्नहोरात्रे वृद्धौ हानौ वा प्राप्येते इति, तथा ।
'ता' इति तस्माद् द्वितीयान्मण्डलान्निष्क्रमन्सूर्योद्वितीये अहोरात्रे सर्वाभ्यन्तरं मण्डलमपेक्ष्य तृतीयं मण्डलमुपसंक्रम्य चारं चरति, 'ताजयान' मित्यादि, तत्रयदा तस्मिन्सर्वाभ्यन्तरं मण्डलमवेक्ष्य तृतीये मण्डले उपसङ्क्रम्य चारं चरति तदा चतुर्भिर्मुहूर्त्तस्यैकपष्टिभागैर्हीनोऽष्टादशमुहूर्त्तप्रमाणो दिवसो भवति, चतुर्भिर्मुहूर्तस्यैकषष्टिभागैरधिका द्वादशमुहूर्तमाणा रात्रि, एवमुक्तनीत्या 'खलु' निश्चितमेतेनानन्तरोदितेनोपायेन प्रतिमण्डलं दिवसरात्रिविषयमुहूर्तैकषष्टिभागद्वयहानिवृद्धिरूपेण निष्क्रमन् मण्डलपरिभ्रमणगत्या शनैः शनैर्दक्षिणाभिमुखं गच्छन् सूर्य, ' तयानंतर 'इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 340