Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 23
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/-/२१ तस्माद्विवक्षितादनन्तरान्मण्डलात् 'तयाणंतर मिति तद्विवक्षितमनन्तरं मण्डलं संक्रामन् २ एकैकस्मिन्मण्डले मुहूर्तस्य द्वौ द्वावेकषष्टिभागौ दिवसक्षेत्रस्य निर्वेष्टयन् २' हापयन् २ रजनिक्षेत्रस्य प्रतिमण्डलं द्वौ द्वौ मुहूर्तस्यैकषष्टिभागौअभिवर्द्धयन् २त्र्यशीत्यधिकशततमेअहोरात्रेप्रथमषण्मासपर्यवसानभूते सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति । _ 'ता'इति ततो यदा तस्मिन् काले अहोरात्ररूपेणमिति प्रागिव सूर्य सर्वाभ्यन्तरान्मण्डलान्मण्डलपरिभ्रमणगत्याशनैः शनैः निष्क्रम्य सर्वबाह्यमण्डलमुपसंक्रम्यचारंचरतितदा सर्वाभ्यन्तरमण्डलं 'प्रणिधाय मर्यादीकृत्य द्वितीयान्मण्डला- दारभ्येत्यर्थ, एकेन त्र्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणि 'षट्षष्टानि' षट्षप्टएयधिकानि मुहूर्तेकषष्टिभागशतानि दिवसक्षेत्रस्य 'निर्वेष्टय'हापयित्वा रजनिक्षेत्रस्य तान्येव त्रीणि मुहूर्ते- कषष्टिभागशतानि षट्पट्यधिकानि अभिवर्द्धर्य चारं चरति, तदाणमिति पूर्ववत्, उत्तमकाष्ठा-प्राप्ता-परमप्रकर्षप्राप्ता उत्कर्षिकाउत्कृष्टाअष्टादशमुहूर्ता-अष्टा-दशमुहूर्तप्रमाणारात्रिर्भवति, जघन्यश्च द्वादशमुहूर्तप्रमाणो दिवसः, एषा प्रथमा षण्मासी, यदिवा एतत् प्रथमं षण्मासं, सूत्रे च पुंस्त्वनिर्देश आर्षत्वात्, एथ त्र्यशीत्यधिकशततमोऽहोरात्रः प्रथमस्य षण्मासस्य पर्यवसानं । __ “से पविसमाणे' इत्यादि, 'स'सूर्यः सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन् द्वितीयं षण्मासमाददानः-प्रतिपद्यमानो द्वितीयस्य षण्मासस्य प्रथमे अहोरात्रे सर्ववाह्यान्मण्डलादर्वागनन्तरं द्वितीयंमण्डलमुपसङ्क्रम्यचारंचरति 'ता'इतितत्रयदा सूर्यो बाह्यात्-सर्वबाह्यान्मण्डलादक्तिनं द्वितीयं मण्डलमुपसङ्कम्य चारं चरति तदा द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूना अष्टादशमुहूर्ता रात्रिर्भवति, द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिको द्वादशमुहूर्तप्रमाणो दिवसः, ततस्ततोऽपि द्वितीयान्मण्डलादभ्यन्तरंससूर्य प्रविशन् द्वितीयस्यषण्मासस्य द्वितीये अहोरात्रे वाहिरंतचंति सर्ववाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसङ्कम्य चारं चरति ‘ता जया ण मित्यादि, ततो यदाणमितिपूर्ववत्, सूर्य सर्वबाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसङ्कम्य चारंचरति 'ता जया ण'मित्यादि ततो यदा णमिति पूर्ववत् सूर्य सर्वबाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसङ्क्रम्य चारंचरतितदाअष्टादशमुहूर्तारात्रिश्चतुर्भि एगट्ठिभागमुहुत्तेहिं'त प्राकृतत्वाद् व्यत्यासेन पदोपन्यासः, एवं तु यथास्थितपदनिर्देशो द्रष्टव्यो-मुहूर्तेकषष्टिभागैरूना भवति, चतुर्भिर्मुहूर्तेकषष्टि- भागैरधिक द्वादशमुहूर्तो दिवसः । ‘एवंखलु एएण'मित्यादि, एवं-उक्तनीत्या खल्वेतेन–अनन्तरोदितेनोपायेन प्रतिमण्डलं रात्रिदिवसविषयमुहूर्तेकषष्टिभागद्वयहानिवृद्धिरूपेण प्रविशन् मण्डलपरिभ्रमणगत्या शनैः शनैरुत्तराभिमुखं गच्छन् ‘तयानंतराउ'त्ति तस्माद्विवक्षिता- तान्मण्डलात् 'तयानंतर' मिति तद्विवक्षितमनन्तरं मण्डलं सङ्क मन् २ एकैकस्मिन् मण्डले मुहूर्तस्य द्वौ द्वावेकषष्टिभागी रजनिक्षेत्रस्य निर्वेष्टयन् दिवसक्षेत्रस्य प्रतिमण्डं द्वौ द्वौ मुहूर्तस्यैकषष्टिभागौ अभिवर्द्धयन् २ त्र्यशीत्यधिकशततमे अहोरात्रे द्वितीयषण्मासपर्यवसानभूते ‘सव्वभंतरं'ति सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारंचरति, 'ता'इतिततोयदा-यस्मिन्काले णमितिपूर्ववत्सूर्यसर्ववाह्यान्मण्डलान्मण्डलपरिभ्रमणगत्या शनैः शनैरभ्यन्तरं प्रविश्य सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा सर्ववाह्यमण्डलं 'प्रणिधाय' मर्यादीकृत्य तदक्तिनाद् द्वितीयान्मण्डलादारभ्येत्यर्थः, एकेन For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 340