________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/-/२१
तस्माद्विवक्षितादनन्तरान्मण्डलात् 'तयाणंतर मिति तद्विवक्षितमनन्तरं मण्डलं संक्रामन् २ एकैकस्मिन्मण्डले मुहूर्तस्य द्वौ द्वावेकषष्टिभागौ दिवसक्षेत्रस्य निर्वेष्टयन् २' हापयन् २ रजनिक्षेत्रस्य प्रतिमण्डलं द्वौ द्वौ मुहूर्तस्यैकषष्टिभागौअभिवर्द्धयन् २त्र्यशीत्यधिकशततमेअहोरात्रेप्रथमषण्मासपर्यवसानभूते सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति । _ 'ता'इति ततो यदा तस्मिन् काले अहोरात्ररूपेणमिति प्रागिव सूर्य सर्वाभ्यन्तरान्मण्डलान्मण्डलपरिभ्रमणगत्याशनैः शनैः निष्क्रम्य सर्वबाह्यमण्डलमुपसंक्रम्यचारंचरतितदा सर्वाभ्यन्तरमण्डलं 'प्रणिधाय मर्यादीकृत्य द्वितीयान्मण्डला- दारभ्येत्यर्थ, एकेन त्र्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणि 'षट्षष्टानि' षट्षप्टएयधिकानि मुहूर्तेकषष्टिभागशतानि दिवसक्षेत्रस्य 'निर्वेष्टय'हापयित्वा रजनिक्षेत्रस्य तान्येव त्रीणि मुहूर्ते- कषष्टिभागशतानि षट्पट्यधिकानि अभिवर्द्धर्य चारं चरति, तदाणमिति पूर्ववत्, उत्तमकाष्ठा-प्राप्ता-परमप्रकर्षप्राप्ता उत्कर्षिकाउत्कृष्टाअष्टादशमुहूर्ता-अष्टा-दशमुहूर्तप्रमाणारात्रिर्भवति, जघन्यश्च द्वादशमुहूर्तप्रमाणो दिवसः, एषा प्रथमा षण्मासी, यदिवा एतत् प्रथमं षण्मासं, सूत्रे च पुंस्त्वनिर्देश आर्षत्वात्, एथ त्र्यशीत्यधिकशततमोऽहोरात्रः प्रथमस्य षण्मासस्य पर्यवसानं ।
__ “से पविसमाणे' इत्यादि, 'स'सूर्यः सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन् द्वितीयं षण्मासमाददानः-प्रतिपद्यमानो द्वितीयस्य षण्मासस्य प्रथमे अहोरात्रे सर्ववाह्यान्मण्डलादर्वागनन्तरं द्वितीयंमण्डलमुपसङ्क्रम्यचारंचरति 'ता'इतितत्रयदा सूर्यो बाह्यात्-सर्वबाह्यान्मण्डलादक्तिनं द्वितीयं मण्डलमुपसङ्कम्य चारं चरति तदा द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूना अष्टादशमुहूर्ता रात्रिर्भवति, द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिको द्वादशमुहूर्तप्रमाणो दिवसः, ततस्ततोऽपि द्वितीयान्मण्डलादभ्यन्तरंससूर्य प्रविशन् द्वितीयस्यषण्मासस्य द्वितीये अहोरात्रे वाहिरंतचंति सर्ववाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसङ्कम्य चारं चरति ‘ता जया ण मित्यादि, ततो यदाणमितिपूर्ववत्, सूर्य सर्वबाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसङ्कम्य चारंचरति 'ता जया ण'मित्यादि ततो यदा णमिति पूर्ववत् सूर्य सर्वबाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसङ्क्रम्य चारंचरतितदाअष्टादशमुहूर्तारात्रिश्चतुर्भि एगट्ठिभागमुहुत्तेहिं'त प्राकृतत्वाद् व्यत्यासेन पदोपन्यासः, एवं तु यथास्थितपदनिर्देशो द्रष्टव्यो-मुहूर्तेकषष्टिभागैरूना भवति, चतुर्भिर्मुहूर्तेकषष्टि- भागैरधिक द्वादशमुहूर्तो दिवसः ।
‘एवंखलु एएण'मित्यादि, एवं-उक्तनीत्या खल्वेतेन–अनन्तरोदितेनोपायेन प्रतिमण्डलं रात्रिदिवसविषयमुहूर्तेकषष्टिभागद्वयहानिवृद्धिरूपेण प्रविशन् मण्डलपरिभ्रमणगत्या शनैः शनैरुत्तराभिमुखं गच्छन् ‘तयानंतराउ'त्ति तस्माद्विवक्षिता- तान्मण्डलात् 'तयानंतर' मिति तद्विवक्षितमनन्तरं मण्डलं सङ्क मन् २ एकैकस्मिन् मण्डले मुहूर्तस्य द्वौ द्वावेकषष्टिभागी रजनिक्षेत्रस्य निर्वेष्टयन् दिवसक्षेत्रस्य प्रतिमण्डं द्वौ द्वौ मुहूर्तस्यैकषष्टिभागौ अभिवर्द्धयन् २ त्र्यशीत्यधिकशततमे अहोरात्रे द्वितीयषण्मासपर्यवसानभूते ‘सव्वभंतरं'ति सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारंचरति, 'ता'इतिततोयदा-यस्मिन्काले णमितिपूर्ववत्सूर्यसर्ववाह्यान्मण्डलान्मण्डलपरिभ्रमणगत्या शनैः शनैरभ्यन्तरं प्रविश्य सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा सर्ववाह्यमण्डलं 'प्रणिधाय' मर्यादीकृत्य तदक्तिनाद् द्वितीयान्मण्डलादारभ्येत्यर्थः, एकेन
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org