SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १, प्राभृतप्राभृतं - 9 २१ त्र्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणि षट्षष्टानि - षट्षष्टयधिकानि मुहूर्त्तस्यैकषष्टिभाग- शतानि रजनिक्षेत्रस्य निर्वेष्टय-हापयित्वा दिवसक्षेत्रस्य च तान्यव त्रीणि षट्षष्टानि मुहूर्तैकषष्टि- भागशतानि अभिवद्धर्य चारं चरति, तदा णमिति वाक्यालङ्कारे उत्तमकाष्ठाप्राप्तः - परमप्रकर्षप्राप्त उत्कर्षकःउत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति जघन्या च द्वादशमुहूर्त्ता रात्रि, एतद् द्वितीयं षण्मासं, यदिवा एषा द्वितीया षण्मासी, सूत्रे पुंस्त्वनिर्देश आर्षत्वात्, एष षट्षष्टयधिकत्रिंशत- तमोऽहोरात्रो द्वितीयस्य षण्मासस्य पर्यवसानभूतः, 'एष' एवंप्रमाण आदित्यसंवत्सरः, एष षट्षष्टयधिकत्रिशततमोऽहोरात्रः 'आदित्यस्य' आदित्य- सम्बन्धिनः संवत्सरस्य पर्यवसानम् । 1 सम्प्रत्युपसंहारमाह-'इइ खलु तस्सेव' मित्यादि, यस्मादेव 'इति' तस्मात्कारणात्तस्यादित्यस्य-आदित्यसंवत्सरस्य मध्ये ' एवं 'उक्तेन प्रकारेण 'सकृद्' एकवारमष्टादशमुहूर्ती दिवसो भवति सकृच्चाष्टादशमुहूर्ता रात्रि तथा सकृद् द्वादशमुहूर्ती दिवसो भवति सकृय द्वादशमुहूर्ता रात्रि, तत्र प्रथमे षण्मासे अस्त्यष्टादशमुहूर्त्ता रात्रि, सा च प्रथमषण्मासपर्यवसानेऽहोरात्रे, नतु द्वादशमुहूर्त्ता रात्रि, द्वितीये षण्मासेऽसत्येतद् यदुत अष्टादशमुहूर्ती दिवसो भवति, स च द्वितीयषण्मासपर्यवसान्भूतेऽहोरात्रे नत्वष्टादशमुहूर्त्ता रात्रि, तथा अस्त्येतत् यदुत तस्मिन्नेव द्वितीयषण्मासे अस्ति द्वादशमुहूर्ता रात्रि, साऽपि तस्मिन्नेव द्वितीयषण्मासपर्यवसानभूतेऽहोरात्रे, न पुनस्त्येतत् यदुत् द्वादशमुहूर्ती दिवसो भवतीति, तथा प्रथमे वा षण्मासे नास्त्येतत् यदुत पञ्चदशमुहूर्तो दिवसो भवति, नाप्यस्त्येतत् यदुत पञ्चदशमुहूर्त्ता रात्रि, किं सर्वथा नेत्याह - नान्यत्र - रात्रिन्दिवानां वृध्यपवृद्धेन्यत्र न भवति, रात्रिन्दिवानां तु वृद्धयपवृद्धौ च भवत्येव पञ्चदशमुहूर्त्ता रात्रि पञ्चदशमुहूर्ती दिवसः, ते च वृद्धयपवृद्धी रात्रिन्दिवानां कथं भवत इत्याह 'मुहुत्ताणं चयोवचएण' मुहूर्त्तानां पञ्चदशसङ्ख्यानां चयोपचयेन चयेन - अधिकत्वेन वृद्धिरपचयेन-हीनत्वेनापवृद्धि, इयमत्र भावना - परिपूर्णपञ्चदशमुहूर्त्तप्रमाणे दिवसरात्री न भवतो, हीनाधिकपञ्चदशमुहूर्त्तप्रमामे तु दिवसरात्री भवतः, एवं 'अन्नत्थ वा अणुवायगईए' इति वाशब्दः प्रकारान्तरसूचने अन्यत्रानुपातगतेः अनुसारगतेः पञ्चदशमुहूर्ती दिवसः पञ्चदशमुहूर्त्ता वा रात्रिर्न भवति, अनुसारगत्या तु भवत्येव, साचानुसारगतिरेवं यदि त्र्यशीत्यधिकशततमे मण्डले षण्मुहूर्ता वृद्धौ हानौ वा प्राप्यन्ते ततोऽर्वाक् तदर्द्धगतौ त्रयो मुहूर्त्ताः प्राप्यन्ते, त्र्यशीत्यधिकशतस्य वाऽर्द्ध सार्द्धा एकनवतिः तत आगतं एकनवसितसङ्घयेषु मण्डलेषु गतेषु द्विनवतितमस्य च मण्डलस्यार्द्ध गते पञ्चदश मुहूर्त्ताः प्राप्यन्ते, ततस्तत ऊर्ध्वं रात्रिकल्पनायां पञ्चदशमुहूर्तोदिवसः, पञ्चदशमुहूर्त्ता च रात्रिर्लभ्यते नान्यथेति । 'गाहाओ भणितव्वाओ' त्ति अत्र अनन्तरोक्तार्थसङ्गाहिका अस्या एव सूर्यप्रज्ञप्तेर्भद्रबा-हुस्वामिना या निर्युक्ति कृता तव्प्रतिबद्धा अन्या वा काश्चन ग्रन्थान्तरसुप्रसिद्धा गाथा वर्त्तन्ते ता 'भणितव्याः' पठनीयाः, ताश्च सम्प्रति कापि पुस्तके न दृश्यन्त इति व्यवच्छिन्नाः सम्भाव्यन्ते ततो न कथयितुं व्याख्यातुं वा शक्यन्ते, यो वा यथा सम्प्रदायादवगच्छति तेन तथा शिष्येभ्यः कथनीया व्याख्यानीयाश्चेति । प्राभृतं - १, प्राभृत प्राभृतं -१ समाप्तम् Jain Education International Ay For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy