Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
प्राभृतं १, प्राभृतप्राभृतं -
वर्त्तमान् इति गम्यं, तथा 'न' नैवातिदूरऽतिविप्रकृष्टोऽनौचित्यपरिहारात्, अथवा नातिदूरे स्थाने -'सुस्सूसमाणे' त्ति भगवद्वचनानि श्रोतुमिच्छन्, 'अभिमुहे ति अभि- भगवन्तं प्रति मुख्यमस्येत्यभिमुखः 'विनयेण' त्ति विनयेन हेतुना 'पंजलियडे' त्ति प्रकृष्टः - प्रधानो ललाटतघटितत्वेन अञ्जलि-हस्तन्यासविशेषः कृतो विहितो येन स प्राञ्जलिकृत, भार्योढादेराकृतिगणतया कृतशभ्दस्य परनिपातः, 'पज्जुवासेमाणे' इति पर्युपासीनः सेवमनः, अनेन विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः, उक्तं च
119 11
-
११
“निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमानपुव्वं उवउत्तेहिं सुणेयब्वं ॥"
इति, ‘एवं वदासि' त्ति एवं वक्ष्यमाणेन प्रकारेण सूर्यादिवक्तव्यताविषयं प्रश्नमवादीत्उक्तवान्, कथमुक्तवानिति शिष्यस्य प्रश्नावकाशमाशङ्कय प्रथमतो विंशतौ प्राभृतेषु यद्वक्तव्यं तदुपक्षिपन् गाथापञ्चकमाहमू. (३)
कइ मंडलाइ वच्चइ १ तिरिच्छा किं च गच्छइ २ ।
ओभासइ केवइयं ३ सेयाइ किं ते संठिई ४ ॥
वृ. प्रथमे प्राभृते सूर्यो वर्षमध्ये कति मण्डलान्येकवारं कति वा मण्डलानि द्विकृत्वो व्रजतीत्येतन्निरूपणीयं, किमुक्तं भवति ? – एवं गौतमने प्रश्ने कृते तदनन्तरं सर्वं तद्विषयं निर्वचनं प्रथमे प्राभृते वक्तव्यमिति । एवं सर्वत्रापि भावनीयं । द्वितीये प्राभृते 'किं' कथं वाशब्दः सर्वप्राभृतवक्तव्यतापेक्षया समुच्चये तिर्यग्व्रजतीति २, तृतीये चन्द्रः सूर्यो वा कियत्क्षेत्रमवभासयतिप्रकाशयतीति ३, चतुर्थे श्वेततायाः - प्रकाशस्य 'किं' कथं 'ते' तव मते संस्थिति-व्यवस्थेति ४ मू. (४) कहिं पडिहया लेसा ५, कहिं ते ओयसंठिई ६ ।
के सूरियं वरयते ७, कहं ते उदयसंठिई ८ ॥
वृ. पञ्चमे कस्मिन् सूर्यस्य प्रतिहता लेश्येति ५, षष्ठे 'कथं' केन प्रकारेण किं सर्वकालमेकरूपावस्थायितया उतान्यथा ओजसः - प्रकाश्य संस्थिति - अवस्थानमिति ६, सप्तमे के पुद्गलाः सूर्यं वरयन्ति - सूर्यलेश्यासंसृष्टा भवन्तीति ७, अष्टमे 'कथं' केन प्रकारेण भगवन् ! 'ते' तव मतेन सूर्यस्योदयसंस्थिति ८ ।
मू. (५) कह कट्ठा पोरिसीच्छाया ९, जोगे किं ते व आहिए १० । किं ते संवच्छरेणादी ११, कइ संवच्छराइ य १२ ।
वृ. नवमे कतिकाष्ठा - किंप्रमाणा पौरुषीच्छाया ९, दशमे योग इति वस्तु किं 'ते' तवया भगवताSSख्यातमिति १०, एकादशे कस्ते - तव मतेन संवत्सराणामदारिति ११, द्वादशे कति संवतसरा इति १२ मू. (६)
कहं चंदमसो वुड्डी १३, कया ते दोसिणा बहू १४ । के सिग्घगई वुत्ते १५, कहं दोसिणलक्खणं १६ ।।
वृ. त्रयोदशे 'कथं ' केन प्रकारेण चन्द्रमसो वृद्धि-वृद्धिप्रतिभासः, उपलक्षणमेतत्तेन वृद्धयवृद्धिप्रतिभास इत्यर्थ १३, चतुर्दशे 'कदा' कस्मिन् काले 'ते' तव मतेन चन्द्रमसो ज्योत्स्ना बहु:प्रभूतेति, १४, पञ्चदशे कश्चन्द्रादीनां मध्ये शीघ्रगतिरुक्त इति १५, षोडशे कि ज्योत्स्नालक्षणमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org