SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १, प्राभृतप्राभृतं - 119 11 ॥२॥ ॥३॥ ॥ ४ ॥ ॥५॥ नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः १६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् (सटीकं) पंचमं उपाङ्गम् मूलसूत्रम् + मलयगिरिआचार्य विरचिता वृत्तिः ) यथास्थितं जगत्सर्वमीक्षते यः प्रतिक्षणम् । श्रीवीराय नमस्तस्मै, भास्वते परमात्मने ॥ श्रुतकेवलिनः सर्वे, विजयन्तां तमश्छिदः । येषां पुरो विभान्ति स्म, खद्योता इव तीर्थिकाः ॥ जयति जिनवचनमनुपममज्ञानतकमःसमूहरविबिम्बम् । शिवसुखफलकल्पतरुं प्रमाणनयभङ्गमबहुलम् ॥ सूर्यप्रज्ञप्तिमहं गुरूपदेशानुसारतः किञ्चित् । विवृणोमि यथाशक्ति स्पष्टं स्वपरोपकाराय ॥ अस्या निर्युक्तिरभूत् पूर्वं श्रीभद्रबाहुसूरिकृता । कलिदोषात् साऽनेशद् व्याचक्षे केवलं सूत्रम् ।। प्राभृतं - १ तत्र तस्यां नगर्यां यस्मिनुद्याने यथा भगवान् गौतमस्वामी भगवतस्त्रिलोकीपतेः श्रीमन्महावीरस्यान्ते सूर्यवक्तव्यतां पृष्टवान् यथा च तस्मै भगवान् व्यागृणाति स्म तथोपदिदर्शयिषुः प्रथमतो नगर्युद्यानाभिधानपुरस्सरं सकलवक्तव्यतोपक्षेपं वक्तुकाम इदमाह मू. (१) नमो अरिहंताणं ॥ ते णं काले णं ते णं समए णं मिथिला नाम नयरी होत्था रिद्धत्थिमियसमिद्धा पमुइतजणजाणवया जाव पासादीया ॥ ४ तीसे णं मिहिलाए नयरीए यहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं माणिभद्दे नामं चेइए होत्था वण्णओ । तीसे णं मिहिलाए जितसत्तू राया, धारिणी देवी, वण्णओ, ते णं काले णं ते णं समए णं तंमि माणिभद्दे चेइए । सामी समोसढे, परिसा निग्गता, धम्मो कहितो, पडिगया परिसा । जाव राजा जामेव दिसिं पादुब्भूए तामेव दिसिं पडिगते । वृ. 'तेणंकाले 'मित्यादि, त इति प्राकृत शैलीवशात् तस्मिन्निति द्रष्टव्यं, अस्यायमर्थो - यदा भगवान् विहरति स्म तस्मिन् णमिति वाक्यालङ्कारे ध्ष्टश्चान्यत्रापि णंशब्दो वाक्यालङ्कारार्थे यथा 'इमाणं पुढवी' इत्यादाविति, काले अधितावसर्पिणीचतुर्थभागरूपे, अत्रापि णंशब्दो वाक्या For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy