________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/-19/ लङ्कारार्थं।
'तेणं समएणं ति समयोऽवसरवाची, तथा च लोके वक्तारो-नाद्याप्येतस्य वक्तव्यस्य समयो वर्तते, किमुक्तं भवति ?-नाद्याप्येतस्य वक्तव्यस्यावसरो वर्तत इति, तस्मिन् समये भगवान् प्रस्तुतां सूर्यवक्तव्यतामचकथत्, तस्मिन् समये मिथिला नाम नगरी अभवत्, नन्विदानीमपि सा नगरी वर्तते ततः कथमुक्तमभवदिति ?, उच्यते, वक्ष्यमाणवर्णकग्रन्थोक्तविभूतिसमन्विता तदैवाभवत् नतु ग्रन्थविधानकाले, एतदपि कथमवसेयमिति चेत् ?, उच्यते, अयं कालोऽवसर्पिणी, अवसर्पिण्यांच प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, एतच्च सुप्रतीतं जिनप्रवचनवेदिनां, अतोऽभवदित्युच्यमानं न विरोधभाक्, सम्प्रति अस्या नगर्या वर्णकमाह
'रिद्धस्थिमियसमिद्धा पमुइयजणजाणवया पासाईया०' इति, ऋद्धाः-भवनैः पौरजनैश्चातीव वृद्धिमुपगता 'ऋधूवृद्धा विति वचनास्तिमिता-स्वचक्रपरचक्रतस्करडमरादिसमुत्थभयकल्लोलमालाविवर्जिता समृद्धा-धनधान्यादिविभूतियुक्ता, ततः पदयत्रयस्यापि कर्मधारयः, तथा पमुइयजनजानवय'त्ति प्रमुदिताः-प्रमोदवन्तः प्रमोदहेतुवस्तूनांतत्र सद्भावाज्जनानगरीवास्तव्यालोका जानपदा-जनपदभवास्तत्र प्रयोजनवशादायाताः सन्तोयत्र साप्रमुदितजनजानपदा, यावच्छब्देनौपपातिकग्रन्थप्रतिपादितः समस्तोऽपि वर्णकः ‘आइन्नजणसमूहा (मणुस्सा)' इत्यादिको द्रष्टव्यः, स च ग्रन्थगौरवभयान लिख्यते, केवलं तत एवौपपातिकादवसेयः, कियान् द्रष्टव्य इत्याह–'पासाईया०' इति अत्र एकशब्दोपादानात् प्रासादीया इत्यनेन . पदेन सह पचदचतुष्टयस्य सूचा कृता, तानि च पदान्यमूनि-प्रासादीया दर्शनीया अभिरूपा प्रतिरूपा, तत्र प्रासादेषु भवा प्रासादीया प्रासादबहुला इत्यर्थः, अत एव दर्शनीया-द्रष्टुं योग्या, प्रासादानामतिरमणीयत्वात्, तथा अभिमुखमतीवोक्तरूपं रूपं-आकारो यस्याः साअभिरूपा प्रतिविशिष्टं-असाधारणं रूपं-आकारो यस्याः सा प्रतिरूपा।
तीसे णं मिहिलाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं माणिभद्दे नामं चेइए होत्थावण्णओ' इति तस्या मिथिलानगर्या बहिर्यऔत्तरपौरस्त्यः-उत्तरपूर्वारूपो दिग्विभाग ईशानकोण इत्यर्थः, एकारो मागधभाषानुरोधतः प्रथमैकवचनप्रभवः, यथा 'कयरे आगच्छइ दित्तरूवे' इत्यादौ, 'अत्र' अस्मिन् औत्तरपौरस्त्ये दिग्विभागै माणिभद्रमिति नाम चैत्यमभवत्, चितेर्लेप्यादिचयनस्य भावः कर्मवा चैत्यं, तच्च संज्ञाशब्दत्वाद्देवताप्रतिविम्बे प्रसिद्धं, ततस्तदाश्रयभूतंयद्देवताया गृहंतदप्युपचाराच्चैत्यं, तच्चैह व्यन्तरायतनंद्रष्टव्यं, नतु भगवतामर्हतामायतनमिति, 'वण्णओ'ति तस्यापि चैत्यस्य वर्णको वक्तव्यः, स चौपपातिकग्रन्थादवसेयः ।
'तीसे णं मिहिलाए' इत्यादि, तस्यां च मिथिलायां नगर्यां जितशत्रुर्नाम राजा, तस्य देवी-समस्तान्तःपुरप्रधाना भार्या सकलगुणधारणाद् धारिणीनाम्नी देवी, ‘वण्णओ'त्ति तस्य राज्ञः तस्याश्च देव्या औपपातिकग्रन्थोक्तो वर्णकोऽभिधातव्यः, 'तेणं काले णं ते णं समए णं तंमि माणिभद्दे चेइए सामी समोसढे, परिसा णिग्गया, धम्मो कहिओ, पडिगया परिसा' तस्मिन् काले तस्मिन् समये तस्मिन् माणिभद्रे चैत्ये। ___सामी समोसढे'त्ति स्वामी जगद्गुरुभगवान् श्रीमहावीरोअर्हन्सर्वज्ञः सर्वदर्शी सप्तहस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org