________________
प्राभृतं १, प्राभृतप्राभृतं - प्रमाणशरीरोच्छ्रयः समचतुरनसंस्थानो वज्रर्षभनाराचसंहननः कज्जलप्रतिमकालिमोपेतस्निग्धकुञ्चितप्रदक्षिणावर्तमूर्धजः उत्तप्ततपनीयाभिरामकेशान्तकेशभूमिरातपत्राकारोत्तमाङ्गसन्निवेशः परिपूर्णशशाङ्कमण्डलादप्यधिकतरवदनशोभः पद्मोत्पलसुरभिगन्धनिश्वासोवदनविभागप्रमाणसकम्बूपमचारुकन्धरः सिंहशार्दूलवत्परिपूर्णविपुलस्कन्धप्रदेशो महापुरकपाटपृथुलवक्षःस्थलाभोगो यथास्थितलक्षणोपेतः श्रीवृक्षपरिधोपमप्रलम्बबाहुयुगलो रविशशिचक्रसौवस्तिकादिप्रशस्तलक्षणोपेतपाणितलः सुजातपाो झषोदरः सूर्यकरस्पर्शसञ्जातविकोशपद्मोपमनाभिमण्डलः सिंहवत्संवर्तितकटीप्रदेशो निगूढजानुः कुरुविन्दवृत्तजङ्घायुगलः सुप्रतिष्ठितकूर्मचारुचरणतलप्रदेशः अनाश्रवो निर्ममः छिन्नश्रोता निरुपलेपोऽपगतप्रेमरागद्वेषश्चतुस्त्रिंशदतिशयोपेतो देवोपनीतेषु नवसु कनकमलेषु पादन्यासं कुर्वन्नाकाशगतेन धर्मचक्रेण आकाशगतेन छत्रेण आकाशगताभ्यां चामराभ्यामाकाशगतेनातिस्वच्छस्फटिकविशेषमयेन सपादपीठेन सिंहासनेन पुरो देवैः प्रकृष्यमाणेन २ धर्मध्वजेन चतुर्दशभिः श्रमणसहनै षट्त्रिंशत्सङ्खयैरार्यिकासहनै परिवृतो यथास्वकल्पं सुखेन विहरन् यथारूपमवग्रहं गृहीत्वा संयमेन तपसा चाऽऽत्मनं भावयन् समवसृतः, समवरसरणवर्णनं च भगवत औपपातिकग्रन्थादवसेयं ।
परिसा निग्गय'त्ति मिथिलायानगर्या वास्तव्यो लोकः समस्तोऽपि भगवन्तमागतं श्रुत्वा भगवद्वन्दनार्थं स्वस्वामदाश्रयाद्विनिर्गतइत्यथः, तन्निर्गमश्चैवम्-'तएणंमिहिलाएनयरीए सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहेसु बहुजनो अन्नमन्नस्स एवमाइक्खइ एवं भासेइ एवं पनवेइ एवं परूवेइ-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइगरे जाव सव्वन्नू सव्वदरिसी आगासगएणंछत्तेणंजाव सुहंसुहेणं विहरमाणेइह आगए इह समागएइह समोसढे इहेव महिलाए नयरीए बहिआ माणिभद्दे चेइए अहापडिरूवं उग्गहं ओगिण्हित्ता अरिहा जिने केवली समणगणपरिवुडे संजमेणं तवसा अप्पाणं भावमाणे विहरइ, तं महाफलं खलु देवाणुप्पिया! तहारूवाणं अरहंताणं भगवंताणं नामगोयस्सविसवणयाएकिमंगपुण अभिगमवंदननमंसणपडिपुच्छणपजुवासणयाए?, तं सेयं खलु एगस्सवि आरियस्स धम्मियस्स सुवयणस्स सवणया, किमंग पुण विउलस्स अट्ठस्स गहणयाए?,तं गच्छामोणं देवाणुप्पिया! समणं भगवं महावीरं वंदामो नमंसामो सक्करेमो सम्माणेमो कल्लाणं मंगलं देवयं पञ्जुवासेमो, एयं नो इहभवे परभवे य हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सइ, तएणं मिहिलाए नयरीए वहवे उग्गा भोगा' इत्याद्यौपपातिकग्रन्थोक्तं सर्वमवसेयं यावत्समस्ताऽपिपर्षत्पर्युपासीना तिष्ठति।
.. 'धम्मो कहिओ'त्ति तस्याः पर्षदः पुरतो निशेषजनभाषानुयायिन्या अर्द्धभागधभाषया धर्म उपदिष्टः, स चैवम्--'अस्थि लोए अस्थि जीवा अत्थि अजीवा' इत्यादि, तथा॥१॥ “जह जीवा बझंति मुच्चंती जह य संकिलिस्संति।
जह दुक्खाणं अंतं करिति केई अपडिबद्धा ।। ॥२॥ अट्टनियट्टियअचित्ता जह जीवा सागरं भवमुविंति।
जह य परिहीनकम्मा सिद्धा सिद्धालयमुर्विति ।। 'तहा आइक्खइ'त्ति ‘जाव राजा जामेव दिसंपाउब्भूए तामेव दिसं पडिगए' इति, अत्र यावच्छब्दादिदमौपपातिकग्रन्थोक्तंद्रष्टव्यं-'तएणंसा महइमहालिया परिसासमणस्स भगवओ महावीरस्सअंतिए धम्म सोच्चानिसम्मा हट्टतुट्ठा समणं भगवंमहावीरंतिक्खुत्तोआयाहिणपयाहिणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org