Book Title: Agam Suttani Satikam Part 01 Aacharang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 433
________________ ४३० आचाराङ्ग सूत्रम् २/२/७/-/- [नि. ३२८] -: चूडा-२ सप्तैककः-७ अन्योन्यक्रिया : बृ. अथ सप्तममन्योऽन्यक्रियाभधमध्यनम् । षष्ठानन्तरं सप्तमोऽस्य चायमभिसम्बन्धःइहानन्तराध्ययने सामान्येन परक्रिया निषिद्धा, इहतु गच्छनिर्गतोद्देशेनान्योऽन्यक्रिया निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे अन्योऽन्यक्रियेति नाम, तत्रान्यस्य निक्षेपार्थं नियुक्तिकृद् गाथापश्चार्धमाह नि. [३२८ ] अत्रे छकं गाथर्धमूतं पुण तदन्नमाएसओ चेव ॥ वृ. अन्यस्य नामादिषड्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यान्यत्रिधा - तदन्यद् अन्यान्यद् आदेश्यान्यच्चेति द्रव्यपरवन्नेयमिति ॥ अत्र परक्रियायामन्योऽन्यक्रियायां च गच्छान्तर्गतैर्यतना कर्त्तव्येति, गच्छनिर्गतानां त्वेतयान प्रयोजनमिति दर्शयितुं नियुक्तिकृदाहनि. [ ३२९] जयमाणस्स परो जं करेइ जयणाए तत्थ अहिगारो । निप्पडिकम्मस्स उ अन्नमन्नकरणं अजुत्तं तु ॥ वृ. जयमाणस्सेत्यादि पातनिकयैव भावितार्था । साम्प्रतं सूत्रं तच्चेदम् मू. (५०८) से भिक्खू वा २ अन्नमन्नकिरियं अज्झत्थियं संसेइयं नो तं सायए २ ॥ से अन्नमन्नं पाए आमजिज्ज वा० नो तं०, सेसं तं चेव, एयं खलु० जइज्जासि त्तिबेमि ॥ वृ. अन्योऽन्यस्य परस्परस्य क्रियां-पादादिप्रमार्जनादिकां सर्वां पूर्वोक्तां क्रियाव्यतिहारविशेषितामाध्यात्मिकीं सांश्लेषिकीं नास्वादयेदित्यादि पूर्ववन्नेयं यावदध्ययनसमाप्तिरिति ॥ चूडा-२ सप्तैककः-७ समाप्तः सप्त सप्तैककः समाप्तः चूडा-२ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्येण विरचिता द्वीतीय श्रुतस्कन्धस्य द्वीतीया चूडायाः टीका परिसमाप्ता चूडा-३ भावना वृ. उक्ता द्वितीया चूला, तदनन्तरं तृतीया समारभ्यते, अस्याश्चायमभिसम्बन्धः - इहादितः प्रभृति येन श्रीवर्द्धमानस्वामिनेदमर्थतोऽभिहितं तस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुं तथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थं भावनाः प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं चूडेति । अस्याश्चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽयमर्थाधिकारः, तद्यथाअप्रशस्त भावनापरित्यागेन प्रशस्ता भावना भावयितव्या इति, नामनिष्पन्ने निक्षेपे भावनेति नाम, तस्याश्च नामादि चतुर्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनाध्त्य द्रव्यादिनिक्षेपार्थं नियुक्तिकृदाह नि. [३३०] दव्वं गंधंगतिलाइएस सीउण्हविसहणाईसु । भावमि होइ दुविहा पसत्य तह अप्पसत्या य ॥ बृ. तत्र 'द्रव्य 'मिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्गैः जातिकुसुमा For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468