Book Title: Agam Suttani Satikam Part 01 Aacharang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४२७
श्रुतस्कन्धः-२, चूडा-२, सप्तककार 'ग्रथितानि' ग्रथितपुष्पादिनिवर्तितस्वस्तिकादीनि वेष्टिमानि' वस्त्रादिनिवर्तितपुत्तलिकादीनि 'पूरिमाणि'त्तियान्यन्तः पूरणेन पुरुषाद्याकृतीनि भवन्ति संधातिमानि चोलकादीनि 'काष्ठकर्माणि' रथादीनि पुस्तकर्माणि' लेप्यकर्माणि 'चित्रकर्माणि' प्रतीतानि 'मणिकर्माणि विचित्रमणिनिष्पादितस्वस्तिकादीनि,तथा 'दन्दकर्माणि' दन्तपुत्तलिकादानि, तथा पत्रच्छेद्यकर्माणि, इत्येवमादीनि विरूपरूपाणि चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेदमनाय, एतानि द्रष्टुं गमने मनोऽपि न विदध्यादित्यर्थ।
एवं शब्दसप्तककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिज्ञयेत्वेवममिलापो योज्यः, दोषाश्चात्र प्राग्वत्समायोज्या इति ।।
___ चूडा-२ सप्तैककः-५ समाप्तः
-चूडा-२ सप्तैककः-६ परक्रियाःवृ. अथ षष्ठं परक्रियाभिधं सप्तैककमध्ययनम् । साम्प्रतं पञ्चमानन्तरं षष्ठः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरंरागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, तदिहापि स एवान्येन प्रकारेणाभिधीयते इत्यनेन सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे परक्रियेत्यादानपदेननाम, तत्रपरशब्दस्यषड्विधंनिक्षेपंदर्शयितुं नियुक्तिकारोगाथाऽर्द्धमाहनि. [३२८] (गावार्द्धम् )छक्कं परइक्विकंत १ दन्न २ माएस ३ कम ४ बहु ५ पहाणे ६।
षट्कं 'पर' इति परशब्दविषये नामादि षड्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यादिपरमेकैकंषडिधं भवतीति दर्शयति, तद्यथा-तत्परम् १ अन्यपरम्२आदेशपरं३क्रमपरं ४बहुपरं५ प्रधानपर ६मिति, तत्रद्रव्यपरं तावत्तद्रूपतयैववर्तमानं-परमन्यत्तत्परंयथापरमाणोः परः परमाणुः १, अन्यपरं त्वन्यरूपतया परमन्यद्, यथा एकाणुकावयणुकत्र्यणुकादि, एवं द्वयणुकादेकाणुकत्र्यणुकादि २, 'आदेशपरम्' आदिश्यते-आज्ञाप्यत इत्यादेशः-यः कस्यांचिक्रियायां नियोज्यते कर्मकरादि स चासौ परश्चादेशपर इति३।
क्रमपरं तु द्रव्यादि चतुर्द्धा, तत्र द्रव्यतः क्रमपरमेकप्रदेशिकद्रव्याद् द्विप्रदेशिकद्रव्यम्, एवं द्वयणुकात्रयणुकमित्यादि, क्षेत्रत एकप्रदेशावगाढाद् द्विप्रदेशावगाढमित्यादि, कालत एकसमयस्थितिकाद् द्विसमयस्थितिकमित्यादि, भावतः क्रमपरमेकगुणकृष्णाद्विगुणकृष्णमित्यादि ४, बहुपरं बहुत्वेन परं बहुपरं यद्यस्माद्दहु तद्बहुपरं, तद्यथा॥१॥ “जीवा पुग्गल समया दव्व पएसा य पज्जवाचेव।
थोवाणं तानंता विसेसअहिया दुवेऽनंता॥ तत्रजीवाः स्तोकाःतेभ्यः पुद्गलाअनन्तगुणा इत्यादि ५, प्रधानपरंतु प्रधानत्वेन परः, द्विपदानां तीर्थकरः चतुष्पदानां सिंहादि अपदानामर्जुनसुवर्णपनसादि ६, एवं क्षेत्रकालभावपराण्यपि तत्परादिषड्विधत्वेन क्षेत्रादिप्राधान्यतया पूर्ववत्स्वधिया योज्यानीति, सामान्येन तु जम्बूद्वीपक्षेत्रात्पुष्करादिकं क्षेत्रपरं, कालपरंतु प्रावृट्कालाच्छरत्कालः, भावपरमौदयिकादौपशमिकादि । साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
मू. (१०६) परकिरियं अज्झत्थियंसंसेसियनोतंसायएनोतं नियमे, सिया से परो पाए आमजिज्ज वा पमजिज्ज वा नो संसायए नो तं नियमे । से सिया परो पायाइं संबाहिज वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468