Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1 Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 7
________________ आवश्यक मूलसूत्रम्-१ सामायिकादिपरिज्ञानं, मुक्तिपदं वा, उपायस्तु आवश्यकमेव वचनरूपापन्नमिति, यस्मात्ततः सामायिकाद्यर्थनिश्चयो भवति, सति च तस्मिन् सम्यग्दर्शनादिवैमल्यं क्रियाप्रयत्नश्च, तस्माच्च मुक्तिपदप्राप्तिरिति । अथवा उपोद्धातनिर्युक्तौ “उद्देसे निद्देसे य" इत्यादिना ग्रन्थेन सप्रपञ्चेन स्वयमेव वक्ष्यति । कश्चिदाह-अधिगतशास्त्रार्थानां स्वयमेव प्रयोजनादि-परिज्ञानात् शास्त्रोदौ प्रयोजनाडुपन्यासवैयर्थ्यमिति, तन्न, अनधिगतशास्त्रार्थानां प्रवृत्तिहेतुत्वात् तदुपन्यासोपपत्तेः। प्रेक्षावतां हि प्रवृत्तिनिश्चयपूर्विका, प्रयोजनादौ उक्तेऽपि च अनधिगताशास्त्रार्थस्य तन्निश्चयानुपपत्तेः, संशयतः प्रवृत्त्यभावात्तदुपन्यासोऽनर्थकः इति चेत्, न, संशय-विशेषस्य प्रवृत्तिहेतुत्वदर्शनात्, कृषीवलादिवत्, इत्यलं प्रसङ्गेन । साम्प्रतं मङ्गलमुच्यते -यस्मात् श्रेयांसि बहुविघ्नानि भवन्ति इति, उक्तं च “श्रेयांसि बहुविध्नानि, भवन्ति महतामपि । अश्रेयसि पवृत्तानां, क्वापि यान्ति विनायकाः ॥” इति । आवश्यकानुयोगश्च अपवर्गप्राप्तिबीजभूतवात् श्रेयोभूत एव, तस्मात्तदारम्भे विनविनायकाद्युपशान्तये तत् प्रदर्श्यत इति । तच्च मङ्गल शास्त्रादी मध्ये अवसाने चेष्यत इति । सर्वमेवेदं शास्त्रं मङ्गलमित्येतावदेवास्तु, मङ्गलत्रयाभ्युपगमस्त्वयुक्तः, प्रयोजनाभावात् इति चेत्, न, प्रयोजनाभावस्यासिद्धत्वात् । तथाच कथं नु नाग विनेया विवक्षितशास्त्रार्थस्याविध्नेन पारं गच्छेयुः ? अतोऽर्थमादिमङ्गलोपन्यासः, तथा स एव कथं नु नाम तेषां स्थिरः स्याद् ? इत्यतोऽथ मध्यमङ्गलस्य, स एव च कथं नु नाम शिष्यप्रशिष्यादिवंशस्य अविच्छित्या उपकारकः स्याद् ? इत्यतोऽर्थं चरममङ्गलस्य इत्यतो हेतोरसिद्धता इति । तत्र “आभिनिबोहियनाणं, सुयनाणं चैवे" त्यादिनाऽऽदिमङ्गलमाह । तथा “वंदन चिति कितिकम्म' इत्यादिना मध्यमगलं, वन्दनस्य विनयरूपत्वात्, तस्य चाभ्यन्तरतपोभेदत्वात्, तपोभेदस्य च मङ्गलत्वात् । तथा “पच्चखाणं" इत्यादिना चावसानमङ्गलं, प्रत्याख्यानस्याद्यतपोभेदत्वादेव मङ्गलत्वमिति । तत्रैतत्स्यात्, इदं मङ्गलत्रयं शास्त्राद्भिन्नमभिन्नं वा ? यदि भिन्नमतः शास्त्रममङ्गलं, तभेदान्यथानुपपत्तेः, अमङ्गलस्य च सतोऽन्यमङ्गलशतेनापि मङ्गलीकर्तुमशक्यत्वात् तन्मङ्गलोपन्यासवैयर्थे, तदुपादानेऽनिष्ठा वा, यथा प्रागमङ्गलस्य सतः शास्त्रस्य मङ्गलमुक्तम्, एवं मगलान्तरमप्यभिधातव्यम्, आद्यमङ्गलाभिधानेऽपि तदमङ्गलत्वात्, इत्थं पुनरप्यभिधा-तव्यमित्यतोऽनिष्ठेति । अथाभिन्नम्, एवं सति शास्त्रस्यैव मङ्गलत्वात् अन्यमङ्गलोपा-दानानर्थक्यमेव, अथ मङ्गलाभावप्रसङ्गः, कथम् ? यथा मङ्गलात्मकस्यापि सतः शास्त्रस्य अन्यमङ्गलनिरपेक्षस्यामङ्गलता, एवं मङ्गलस्याप्यन्यमलशून्यस्य, इत्यतो मङ्गलाभाव इति । __ अत्रोच्यते--आद्यपक्षोक्तदोषाभावस्तावदनभ्युपगमादेव, तदभ्युपगमेऽपिच मङ्गलस्य लवणप्रदीपादिवत् स्वपरानुग्रहकारित्वादुक्तदोषाभाव इति । चरमपक्षेऽपि न मङ्गलोपादानानर्थक्यं, शिष्यमतिमङ्गलपरिग्रहाय शास्त्रस्यैव मङ्गलत्वानुवादात्, एतदुक्तं भवति-कथं नु नाम विनेयो मङ्गलमिदं शास्त्रमित्येवं गृह्णीयात् ?, अतो मङ्गलमिदं शास्त्रमितिकथ्यते । आह-यद्यपि मङ्गलमिदं शास्त्रमित्येव न गुह्णाति विनेयस्तथापि तत् स्वतो मङ्गलरूपत्वात् स्वकार्यप्रसाधनायालमेवेति कथं नानर्थक्यं ?, न, अभिप्रायापरिज्ञानात्, इह मङ्गलमपि Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 808