Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१०
आवश्यक मूलसूत्रम् - १
भिद्यन्त इति भेदा विकल्पा अंशा इत्यनर्थान्तरं त एव वस्तूनि भेदवस्तूनि कथम् ?, यतो नानवगृहीतमीह्यते, न चानीहितमवगम्यते, न चानवगतं धार्यत इति । अथवा काक्वा नीयते एवं भवन्ति चत्वार्याभिनिबोधिकज्ञानस्य भेदवस्तूनि ?, 'समासेन' संक्षेपेण अविशिष्टावग्रहादिभावस्वरूपापेक्षया, न तु विस्तरत इति, विस्तरतोऽष्टाशितिभेदभिन्नत्वात्तस्येति गाथार्थः ॥ इदानीमनन्तरोपन्यस्तानामवग्रहादीनां स्वरूपप्रतिपिपादयिषयेदमाह
नि. (३)
वृ- तत्र अर्यन्ते इत्यर्थाः, अर्यन्ते गम्यन्ते परिच्छिद्यन्त इतियावत्; ते च रूपादयः, तेषां अर्थानां प्रथमं दर्शनानन्तरं ग्रहणं अवग्रहणं अवग्रहं ब्रुवत इतियोगः । आह-वस्तुनः सामान्यविशेषात्मकतयाऽविशिष्टत्वात् किमिति प्रथमं दर्शनं न ज्ञानमिति, उच्यते, तस्य प्रबलावरणत्वात्, दर्शनस्य चाल्पावरणत्वादिति । स च द्विधाव्यञ्जनावग्रहोऽर्थावग्रहश्च, तंत्र व्यञ्जनावग्रहपूर्वकत्वादर्थावग्रहस्य प्रथमं व्यञ्जनावग्रहः प्रतिपाद्यत इति । तत्र व्यञ्जनावग्रह इति कः शब्दार्थः ?, उच्यते, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच्च उपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसंघातो वा ततश्च व्यञ्जनेन उपकरणेन्द्रियेण शब्दादिपरिणतद्रव्याणां च व्यञ्जनानां अवग्रहो व्यञ्जनावग्रह इति । अयं च नयनमनोवर्जेन्द्रियाणामवसेय इति, न तु नयनमनसोः, अप्राप्तकारित्वात्, अप्राप्तकारित्वं चानयो: “पुढं सुणेइ सद्दं रूवं पुण पासई अपुठ्ठे तु" इत्यत्र वक्ष्यामः । तथा च व्यञ्जनावग्रहचरमस-मयोपात्तशब्दाद्यर्थावग्रहणलक्षणोऽर्थाविग्रहः, सामान्यमात्रानिर्देश्यग्रहणमेकसामयिकमिति भावार्थ: । 'तथा' इत्यानन्तर्ये 'विचारेणं' पर्यालोचनं अर्थानामित्यनुवर्तते, ईहनमीहा तां, ब्रुवत इति सम्बन्धः ।
एतदुक्तं भवति - अवग्रहादुत्तीर्णः अवायात्पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागामुिखश्च प्रायो मधुरत्वादयः शङ्ख-शब्दधर्मा अत्र घटन्ते न खरकर्कशनिष्ठुरतादयः शार्ङ्गशब्दधर्मा इति मतिविशेष ईहेति । विशिष्टोऽवसायो व्यवसायः, निर्णयो निश्चयोऽवगम इत्यनर्थान्तरं तं व्यवसायं च, अर्थानामिति वर्त्तते, अवायं ब्रुवत इति संसर्गः, एतदुक्तं भवति शाङ्ख एवायं शार्ङ्ग एव वा इत्यवधारणात्मकः प्रत्ययोऽवाय इति, चशब्द एवकारार्थः, स चावधारणे, व्यवसायमेवावायं ब्रुवते इति भावार्थः । घृतिर्धरणं, अर्थानामिति वर्त्तते, परिच्छिन्नस्य वस्तुनोऽविच्युतिस्मृतिवासनारूपं तद्धरणं पुनर्धारणां ब्रुवते, पुनः शब्दोऽप्येवकारार्थः, स चावधारणे, धरणमेव धारणां ब्रुवत इति, अनेन शास्त्रपारतन्यमाह, इत्थं तीर्थकर गणधरा ब्रुवत इति । एवं शब्दमधिकृत्य श्रोत्रेन्द्रियनिबन्धना अवग्रहादयः प्रतिपादिताः, शेषेन्द्रियनिबन्धना अपि रूपादिगोचराः स्थाणुपुरुष- कुष्ठोत्पल-संभृतकरिल्लमांससर्पोत्पलनालादी इत्थमेव द्रष्टव्याः, एवं मनसोऽपि स्वप्ने शब्दा-दिविषया अवग्रहादयोऽवसेया इति, अन्यत्र चेन्द्रियव्यापाराभावेऽभिमन्यमानस्येति । ततश्च व्यञ्जनावग्रहश्चतुर्विधः, तस्य नयनमनोवर्जेन्द्रियसंभवात्, अर्थावग्रहस्तु षोढा, तस्य सर्वेन्द्रियसंभवात् । एवमीहादयोऽपि प्रत्येकं षट्प्रकारा एवेति । एवं संकलिताः सर्व एव अष्टाविंशतिर्मतिभेदा अवगन्तव्या इति । अन्ये त्वेवं पठन्ति - 'अत्थाणं उग्गहणंमि उग्गहो' तत्र अर्थानामवग्रहणे सति अवग्रहो नाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
अत्थाणं ओगहणंमि उग्गहो तह विधारणे ईहा । वयसामि अवाओ धरणंमि य धारणं बिंति ||
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 808