Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 20
________________ पीठिका - [नि. ११] समयसंभवोऽस्ति, कथम् ? - प्रथमसमयानन्तरमेव शेषदिक्षु पराघातद्रव्यसद्भावात् द्वितीयसमय एव मन्धानसिद्धेः, तृतीये च तदन्तरालापूरणात् इति । आह- जैनसमुद्घातवच्चतुर्भिरेवापूरणं भविष्यतीति को दोष इति, अत्रोच्यते, न सिद्धान्तापरिज्ञानात् इह जैनसमुद्घाते स्वरूपेणापूरणात्, न तत्र पराघातद्रव्यसंभवोऽस्ति, सकर्मकजीवव्यापारत्वात्तस्य, ततश्च कपाटनिर्वृत्तिरेव तत्र द्वितीयसमय इति, शब्दद्रव्याणां त्वनुश्रेणिगमनात्पराघातद्रव्यान्तरवा-सकस्वभावत्वाच्च द्वितीयसमय एव मन्थानापत्तिरिति, अचित्तमहास्कन्धोऽपि वैश्रसिकत्वात् पराघाताभावाच्च चतुर्भिरेव पूरयति, न चैवं शब्द इति, सर्वत्रानुश्रेणिगमनात्, इत्यलमतिविस्तरेण, गमनिकामामेवैतत् प्रस्तुतमिति । यदुक्तं- 'लोकस्य च कतिभागो भवति भाषायाः' इति, तत्रेदमुच्यते -- 'लोकस्य च ' क्षेत्रगणितमपेक्ष्य 'चरमान्ते' असंख्येयभागे 'चरमान्तः' असंख्येयभागो भवति 'भाषायाः' समग्रलोकव्यापिन्याः इति गाथार्थः ॥ १७ 'तत्त्व-भेद-पर्यायैर्व्याख्या' इति न्यायात् तत्त्वतो भेदतश्च मतिज्ञानस्वरूपमभिधाय इदानीं नानादेशजविनेयगणसुखप्रतिपत्तये तत्पर्यायशब्दान् अभिधित्सुराह नि. (१२) ईहा अपोह वीमंसा, मग्गणा य गवेसणा । सण्णा सई मई पण्णा, सव्वं आभिनिबोहियं ॥ वृ- 'ईह चेष्टायां' ईहनमीहा सतामर्थानां अन्वायानां व्यतिरेकिणां च पर्यालोचना इतियावत्; अपोहनं अपोहः निश्चय इत्यर्थः, विमर्शनं विमर्शः ईहाया उत्तरः, प्रायः शिरः कण्डूयनादयः पुरुषधर्मा घटन्ते इति संप्रत्ययो विमर्शः, तथा अन्वयधर्मान्वेषणा मार्गणा, चशब्दः समुच्चयार्थः, व्यतिरेकधर्मालोचना गवेषणा, तथा संज्ञानं संज्ञा, व्यञ्जनावग्रहोत्तर - कालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृतिः, पूर्वानुभूतार्थांलम्बनः प्रत्ययः, मननं मतिः कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनारूपा बुद्धिरिति तथा प्रज्ञानं प्रज्ञा - विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिरित्यर्थः, सर्वमिदं 'आभिनिबोधिकं' मतिज्ञानमित्यर्थः, एवं किञ्चिद्भेदाभेदः प्रदर्शितः, तत्त्वतस्तु मतिवाचकाः सर्व एवैते पर्यायशब्दा इति गाथार्थः ॥ तत्त्वभेदपर्यायैर्मतिज्ञानस्वरूपं व्याख्यायेदानीं नवभिरनुयोगद्वारैः पुनस्तद्रूपनिरूपणायेदमाहसंतपय परूवणया दव्वपमाणं च खित्त फुसणा य । नि. (१३) नि. (१४) कालो अ अंतरं भाग, भावे अप्पाबहुं चेव ॥ गइ इंदिए य काए, जोए वेए कसाय लेसासु । सम्मत्तनाणदंसणसंजयउवओग आहारे || नि. (१५) भासग परितं पजत्त सुहुमे सण्णी य होइ भवं चरिमे । अभिनिबोहिअनाणं, मग्गिजइ एस ठाणेसु ।। वृ- सच्च तत्पदं च सत्पदं तस्य प्ररूपणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता गत्यादिभिद्वारैराभिनिबोधिकस्य कर्तव्येति, अथवा सद्विषयं पदं सत्पदं शेषं पूर्ववत्, आहकिमसत्पदस्यापि प्ररूपणा क्रियते ? येनेदमुच्यते 'सत्पदप्ररूपणेति, क्रियत इत्याह खरविषाणादेरसत्पदस्यापीति, तस्मात् सद्ग्रहणमिति, अथवा सन्ति च तानि पदानि च सत्पदानि गत्यादीनि 24 2 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 808