________________
पीठिका - [नि. ११]
समयसंभवोऽस्ति, कथम् ? - प्रथमसमयानन्तरमेव शेषदिक्षु पराघातद्रव्यसद्भावात् द्वितीयसमय एव मन्धानसिद्धेः, तृतीये च तदन्तरालापूरणात् इति । आह- जैनसमुद्घातवच्चतुर्भिरेवापूरणं भविष्यतीति को दोष इति, अत्रोच्यते, न सिद्धान्तापरिज्ञानात् इह जैनसमुद्घाते स्वरूपेणापूरणात्, न तत्र पराघातद्रव्यसंभवोऽस्ति, सकर्मकजीवव्यापारत्वात्तस्य, ततश्च कपाटनिर्वृत्तिरेव तत्र द्वितीयसमय इति, शब्दद्रव्याणां त्वनुश्रेणिगमनात्पराघातद्रव्यान्तरवा-सकस्वभावत्वाच्च द्वितीयसमय एव मन्थानापत्तिरिति, अचित्तमहास्कन्धोऽपि वैश्रसिकत्वात् पराघाताभावाच्च चतुर्भिरेव पूरयति, न चैवं शब्द इति, सर्वत्रानुश्रेणिगमनात्, इत्यलमतिविस्तरेण, गमनिकामामेवैतत् प्रस्तुतमिति । यदुक्तं- 'लोकस्य च कतिभागो भवति भाषायाः' इति, तत्रेदमुच्यते -- 'लोकस्य च ' क्षेत्रगणितमपेक्ष्य 'चरमान्ते' असंख्येयभागे 'चरमान्तः' असंख्येयभागो भवति 'भाषायाः' समग्रलोकव्यापिन्याः इति गाथार्थः ॥
१७
'तत्त्व-भेद-पर्यायैर्व्याख्या' इति न्यायात् तत्त्वतो भेदतश्च मतिज्ञानस्वरूपमभिधाय इदानीं नानादेशजविनेयगणसुखप्रतिपत्तये तत्पर्यायशब्दान् अभिधित्सुराह
नि. (१२)
ईहा अपोह वीमंसा, मग्गणा य गवेसणा । सण्णा सई मई पण्णा, सव्वं आभिनिबोहियं ॥
वृ- 'ईह चेष्टायां' ईहनमीहा सतामर्थानां अन्वायानां व्यतिरेकिणां च पर्यालोचना इतियावत्; अपोहनं अपोहः निश्चय इत्यर्थः, विमर्शनं विमर्शः ईहाया उत्तरः, प्रायः शिरः कण्डूयनादयः पुरुषधर्मा घटन्ते इति संप्रत्ययो विमर्शः, तथा अन्वयधर्मान्वेषणा मार्गणा, चशब्दः समुच्चयार्थः, व्यतिरेकधर्मालोचना गवेषणा, तथा संज्ञानं संज्ञा, व्यञ्जनावग्रहोत्तर - कालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृतिः, पूर्वानुभूतार्थांलम्बनः प्रत्ययः, मननं मतिः कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनारूपा बुद्धिरिति तथा प्रज्ञानं प्रज्ञा - विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिरित्यर्थः, सर्वमिदं 'आभिनिबोधिकं' मतिज्ञानमित्यर्थः, एवं किञ्चिद्भेदाभेदः प्रदर्शितः, तत्त्वतस्तु मतिवाचकाः सर्व एवैते पर्यायशब्दा इति गाथार्थः ॥ तत्त्वभेदपर्यायैर्मतिज्ञानस्वरूपं व्याख्यायेदानीं नवभिरनुयोगद्वारैः पुनस्तद्रूपनिरूपणायेदमाहसंतपय परूवणया दव्वपमाणं च खित्त फुसणा य ।
नि. (१३)
नि. (१४)
कालो अ अंतरं भाग, भावे अप्पाबहुं चेव ॥ गइ इंदिए य काए, जोए वेए कसाय लेसासु । सम्मत्तनाणदंसणसंजयउवओग आहारे ||
नि. (१५) भासग परितं पजत्त सुहुमे सण्णी य होइ भवं चरिमे । अभिनिबोहिअनाणं, मग्गिजइ एस ठाणेसु ।।
वृ- सच्च तत्पदं च सत्पदं तस्य प्ररूपणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता गत्यादिभिद्वारैराभिनिबोधिकस्य कर्तव्येति, अथवा सद्विषयं पदं सत्पदं शेषं पूर्ववत्, आहकिमसत्पदस्यापि प्ररूपणा क्रियते ? येनेदमुच्यते 'सत्पदप्ररूपणेति, क्रियत इत्याह खरविषाणादेरसत्पदस्यापीति, तस्मात् सद्ग्रहणमिति, अथवा सन्ति च तानि पदानि च सत्पदानि गत्यादीनि
24 2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org