________________
१८
आवश्यक मूलसूत्रम् - १.
तैः प्ररूपणं सत्पदप्ररूपणं मतेरिति । तथा 'द्रव्यप्रमाणं' इति जीवद्रव्यप्रमाणं वक्तव्यं, एतदुक्तं भवति एकस्मिन् समये कियन्तो मतिज्ञानं प्रतिपद्यन्त इति, सर्वे वा कियन्त इति, चः समुच्चये, 'क्षेत्र' इति क्षेत्रं वक्तव्यं, कियति क्षेत्रे मतिज्ञानं संभवति, 'स्पर्शना च' वक्तव्या, कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति, आह-क्षेत्रस्य स्पर्शनायाश्च कः प्रतिविशेषः ?, उच्यते, यत्रावगाहस्तत् क्षेत्रं, स्पर्शना तु तद्ब्राह्यतोऽपि भवति, अयं विशेष इति चशब्दः पूर्ववत्, कालश्च वक्तव्यः, स्थित्यादिकालः, अन्तरं च वक्तव्यं प्रतिपत्त्यादाविति, भागो वक्तव्यः मतिज्ञानिनः शेषज्ञानिनां कतिभागे वर्त्तन्त इति, तथ भावो वक्तव्यः, कस्मिन् भावे मतिज्ञानिन इति, अल्पबहुत्वं वक्तव्यं, आह-भागद्वारादेवायमर्थोऽवगतः, ततश्चालमनेनेति, न, अभिप्रायापरिज्ञानात्, इह मतिज्ञानिनामेव पूर्वप्रतिपन्नप्रतिपद्यमानकापेक्षया अल्प बहुत्वं वक्तव्यमिति समुदायार्थः ।
इदानीं प्रागुपन्यस्तगाथाद्वयेनाभिनिबोधिकस्य सत्पदप्ररूपणाद्वारावयवार्थः प्रतिपाद्यते, कथम् ?, अन्विष्यते 'आभिनिबोधिकज्ञानं किमस्ति नास्तीति' अस्ति, यद्यस्ति कतत् ?, तत्र 'गताविति' गतिमङ्गीकृत्या - लोच्यते सा गतिश्चतुर्विधा-नारकतिर्यङ्नरामरभेदभिन्ना, तत्र चतुष्प्रकारायामपि गतौ आभिनिदोधिकज्ञानस्य पूर्वप्रति-पन्ना नियमतो विद्यन्ते, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याः, कदाचिद्भवन्ति कदाचिन्नेति, तत्र प्रतिपद्यमाना अभिधीयन्ते ते ये तत्प्रथमतयाऽऽभिनिबोधिकं प्रतिपद्यन्ते, प्रथमसमय एव, शेषसमयेषु तु पूर्वप्रतिपन्ना एव भवन्ति १ । तथा 'इन्द्रियद्वारे' इन्द्रियाण्यङ्गीकृत्य मृग्यते, तत्र पञ्चेन्द्रियाः पूर्वप्रतिपन्नाः नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया इति द्वित्रिचतुरिन्द्रियास्तु पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानाः, एकेन्द्रियास्तु उभयविकलाः २ । तथा 'काय इति' कायमङ्गीकृत्य विचार्यते, तत्र सकाये पूर्वप्रतिपन्ना नियमतो विद्यन्ते, इतरे त भाज्याः, शेषकायेषु च पृथिव्यादिषु उभयाभाव इति ३ । तथा 'योग इति' त्रिषु योगेषु समुदितेषु पञ्चेन्द्रियवद्वक्तव्यं, मनोरहित - वाग्योगेषु विकलेन्द्रियवत्, केवलकाययोगे तूभयाभाव इति ४ । तथा 'वेद इति' त्रिष्वपि वेदेषु विवक्षितकाले पूर्वप्रतिपन्ना अवश्यमेव सन्ति, इतरे तु भाज्या इति ५ ।
।
तथा 'कषाय इति द्वार' कषायाः क्रोधमानमायालोभाख्याः प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्चलनभेदभिन्ना इति, तत्राद्येषु अनन्तानुबन्धेषु क्रोधादिषूभयाभाव इति, शेषेषु त पञ्चेन्द्रियवद् योज्यम् ६ । तथा 'लेश्यासु' चिन्त्यते, तत्र श्लेषयन्तत्मानमष्टविधेन कर्मणा इति लेश्याः कायाद्यन्यतमयोगवतः कृष्णादिद्रव्यसंबन्धादात्मनः परिणामा इत्यर्थः, तत्रोपरितनीषु तिसृषु लेश्यासु पञ्चेन्द्रियवद्योजनीयं इति, आद्यासु तु पूर्वप्रतिपन्नाः संभवन्ति, नत्वितर इति ७ । तथा 'सम्यक्त्वद्वारं' सम्यग्धष्टि: किं पूर्वप्रतिपन्नः किं वा प्रतिपद्यमानक इति, अत्र व्यवहारनिश्चयाभ्यां विचार इति, तत्र व्यवहारनय आह- सम्यग्द्दष्टि पूर्वप्रतिपन्नो न प्रतिपद्यमानकः आभिनिबोधिकाज्ञानलाभस्य, सम्यग्दर्शनमतिश्रुतानां युगपल्लाभात्, आभिनिबोधिकप्रतिपत्त्यनवस्थाप्रसङ्गाच्च । निश्चयनयस्त्वाह-सम्यग्दृष्टिः पूर्वप्रतिपन्नः प्रतिपद्वामानश्च आभिनिबोधिकज्ञानलाभस्य, सम्यग्दर्शनसहायत्वात्, क्रियाकालनिष्ठाकालयोरभेदात्, भेदे च क्रियाऽभावाविशेषात् पूर्ववद्वस्तु नोऽनुत्पत्तिप्रसङ्गात् न चेत्थं तप्रतिपत्त्यनवस्थेति ८ । तथा 'ज्ञानद्वारं' तत्र ज्ञानं पञ्चप्रकारं, मतिश्रुतावधिमनः पर्यायकेवलभेदभिन्नं इति, अत्रापि व्यवहार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-