________________
पीठिका - [ नि. १५]
निश्चयनयाभ्यां विचार इति, तत्र व्यवहारनयमतं-मतश्रुितावधिमनः पर्यायज्ञानिनः पूर्वप्रतिपन्ना न तु प्रतिपद्यमानका इति मत्यादिलाभस्य सम्यग्दर्शनसहचरितत्वात्, केवली तु न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, तस्य क्षायोपशमिकज्ञानातीतत्वात्, तथा मत्यज्ञानश्रुताज्ञानविभङ्गज्ञान वन्तस्तु विवक्षितकाले प्रतिपद्यमाना भवन्ति, न तु पूर्वप्रतिपन्ना इति । निश्चयनयमतं तु मतिश्रुतावधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमाना अपि सम्यग्दर्शनसहचरितत्वात् मत्यादिलाभस्य संभवन्तीति, क्रियाकालनिष्ठा-कालयोरभेदात् मनः पर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव, न प्रतिपद्यमानकाः, तस्य च भावयतेरेवोत्पत्तेः, केवलिनां तूभयाभाव इति । मत्याद्यज्ञानवन्तस्तु न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानकाः, प्रतिपत्तिक्रियाकाले मत्याद्यज्ञानाभावात्, क्रियाकालनिष्ठाकालयोश्चाभेदात्, अज्ञानभावे च प्रतिपत्तिक्रियाऽभावात् ९ ।
१९
इदानीं 'दर्शन', तद्दर्शन चतुर्विधं चक्षुरचक्षुरवधिकेवलभेदभिन्न, तत्र चक्षुर्दर्शनिनः अचक्षुर्दर्शनिनश्च, किमुक्तं भवति ? - दर्शनलब्धिसम्पन्ना न तु दर्शनोपयोगिन इति 'सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स उप्पज्जइ' इति वचनात् पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याः, अवधिदर्शनिनस्तु पूर्वप्रतिपन्ना एव, न तु प्रतिपद्यमानकाः, केवलदर्शनिनस्तूभयविकला इति १० । 'संयत इति द्वारं', संयतः पूर्वप्रतिपन्नो न प्रतिपद्यमान इति ११ । 'उपयोगद्वार' स च द्विधा - साकारोऽनाकारश्च तत्र साकारोपयोगिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, अनाकारो पयोगिनस्तु पूर्वप्रतिपन्ना इव न प्रतिपद्यमानकाः १२ ।
>
अधुना 'आहारकद्वार', आहारकाः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनया विवक्षितकाल इति, अनाहारकास्तु अपान्तरालगतौ पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानका इति १३ । तथा 'भाषक इति द्वारं', तत्र भाषालब्धिसंपन्ना भाषकाः, ते भाषमाणा अभाषमाणा वा पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भजनीया इति, तल्लब्धिशून्याश्चोभयविकला इति १४ । 'परीत्त इति द्वारं तत्र परीत्ताः प्रत्येकशरीरिणः, ते पूर्वप्रतिपन्ना नियमतः सन्ति प्रतिपद्यमासास्तु विवक्षितकाले भाज्या इति, साधारणास्तु उभयविकला इति १५ । 'पर्याप्तक इति द्वारं', तत्र षङ्गिराहादिपर्याप्तिभिर्ये पर्याप्तास्ते पर्याप्तकाः,
}
,
पूर्वप्रतिपन्ना नियमतो विद्यन्ते, विवक्षितकाले प्रतिपद्यमानास्तु भजनीया इति, अपर्याप्तकास्तु षट्पर्याप्तपेक्षया पूर्वप्रतिपन्नाः संभवन्ति, न त्वितरे १६ । 'सूक्ष्म इति द्वारं तत्र सूक्ष्माः खलूमयविकलाः, बादरास्तु पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु विवक्षितकाले भाज्या इति १७ । तथा 'संज्ञिद्वारं' तत्रेह दीर्घकालिक्युपदेशेन संज्ञिनः प्रतिगृह्यन्ते, ते च बादरवद्वक्तव्याः, असंज्ञिनस्तु पूर्वप्रतिपन्नाः संभवन्ति, न त्वितर इति १८ । 'भव इति द्वार', तत्र भवसिद्धिकाः संज्ञिवद्वक्तव्याः, अभवसिद्धिकास्तूभयशून्या इति १९ । 'चरम इति द्वारं', चरमो भवो भविष्यति यस्यासौ अभेदोपचाराच्चरम इति, तत्र इत्थंभूताः चरमाः पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु भाज्याः, अचरमास्तूभयविकलाः, उत्तरार्धं तु व्याख्या तमेव । कृता सत्पदप्ररूपणेति, साम्प्रतं आभिनिबोधिकजीवद्रव्यप्रमाणमुच्यते
तत्र प्रतिपत्तिमङ्गीकृत्य विवक्षितकाले कदाचिद् भवन्ति कदाचिन्नेति, यदि भवन्ति जघन्यत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-