SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १६ आवश्यक मूलसूत्रम्-१ समुच्चयार्थः, आसां च स्वरूपमुदाहरणयुक्तानां सूत्रादवसेयमिति गाथार्थः ॥ __ आह-'औदारिकादिः गृह्णाति मुञ्चति च भाषां' इत्युक्तं, सा हि मुक्ता उत्कृष्टतः कियत्क्षेत्रं व्याप्नोतीति, उच्यते, समस्तमेव लोकमिति, आह-यद्येवं 'कइ०' तिगाहा, अयं सूत्रतोऽभिसंबन्धः, अथवाऽर्थतः, प्रतिपाद्यते, आह-द्वादशम्यो योजनेभ्याः परतो न शृणोति शब्द, मन्दपरिणामत्वात्ताद्रव्याणामित्युक्तं, तत्र किं परतोऽपि द्रव्याणामागतिरस्ति ?, यथा च विषयायन्तरे नैरन्तर्येण तद्वासनासामर्थे, एवं बहिरप्यस्ति उत नेति, उच्यते, अस्ति, केषाञ्चित् कृत्स्नलोकव्याप्तेः, आह-यद्येवनि. (१०) कइहि समएहि लोगो, भासाइ निरंतरं तु होइ फुडो । लोगस्स य कइ भागे, कइ भागो होइ भासाए॥ वृ-'कतिभिः समयैः' 'लोकः' लोक्यत इति लोकः चतुर्दशरज्ज्वात्मकः क्षेत्रलोकः परिगृह्यते, भाषया निरन्तरमेव भवति स्पृष्टः व्याप्तः पूर्ण इत्यनान्तरं, लोकस्य च कतिभागे कतिभागो भवति भाषायाः ?, ।। अत्रोच्यतेनि. (११) चउहि समएहि लोगो, भासाइ निरंतरं तु होइ फुडो । लोगस्स य चरमंते, चरमंतो होइ भासाए । वृ-चतुर्भिः समयैर्लोको भाषया निरन्तरमेव भवति स्पृष्टः, आह-किं सर्वथैव भाषया उत विशिष्टयैवेति, उच्यते, विशिष्टया, कथम् ? -इह कश्चिन्मन्दप्रयलो वक्ता भवति, स ह्यभिन्नान्येव शब्दद्रव्याणि विसृजति, तानि च विसृष्टानि असंख्येयात्मकत्वात् परिस्थूलत्वाच्च विभिद्यन्ते, भिद्यमानानि च संख्येयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयलः, स खलु आदाननिसर्गप्रयत्नाभ्यां भित्त्चैव विसृजति, तानि ज सूक्ष्मत्वाद्बहुत्वाच्च अनन्तगुणवृद्ध्या वर्धमानानि षट्सु दिक्षु लोकान्तमाप्नुवन्ति, अन्यानि च तत्पराघातवासितानि वासनाविशेषात् समस्तं लोकमापूरयन्ति, इह च चतुः समयग्रहणात् त्रिपश्चसमयग्रहणमपि प्रत्येतव्यं, तुलादिमध्यग्रहणवत्, तत्र कथं पुनस्त्रिभिः समयैः लोको भाषया निरन्तरमेव भवति स्पृष्ट इति ? उच्यते, लोकमध्यस्थवक्तृपुरुषनिसृष्टानि, यतस्तानि प्रथमसमय एव षट्सु दिक्षु लोकान्तमनुधावन्ति, जीवसूक्ष्मपुद्गलयोः 'अनुश्रेणि गतिः' इति वचनात्, द्वितीयसमये तु त एव हि षट् दण्डाश्चतुर्दिशमेकैकशो विवर्धमानाः षट् मन्थानो भवन्ति, तृतीयसमये तु पृथक् पृथक् तदन्तरालपूरणात् पूर्णो भवति लोक इति, एवं त्रिभिः समयैर्भाषया लोकः स्पृष्टो भवति, यदा तु लोकान्तस्थितो वा भाषको वक्ति, चतसृणां दिशामन्यतमस्यां दिशि नाड्या बहिरवस्थितस्तदा चतुर्भिः समयैरापूर्यत इति, कथम् ?, एकसमयेन अन्तर्नाडीमनुप्रविशति, त्रयोऽन्ये पूर्ववद्रष्टव्याः, यदा तु विदिग्व्यवस्थितो वक्ति, तदा पुद्गलानामनुश्रेणिगमनात् समयद्वयेनान्तर्नाडीमनुप्रविशति, शेषसमयत्रयं पूर्ववद्रष्टव्यमित्येवं पञ्चमिः समयैरापूर्यत इति । अन्ये तु जैनसमुद्घातगत्या लोकापूरणमिच्छन्ति, तेषां चाद्यसमये भाषायाः खलु ऊर्ध्वाधोगमनात् शेषदिक्षु न मिश्रशब्दश्रवणसंभवः, उक्तं चाविशेषण-“भासासमसेढीओ, सदं जं सुणइ मीसयं सुणइ" त्ति । अथ मतं-'व्याख्यानतोऽर्थप्रतिपत्तिः' इति न्यायाद्दण्ड एव मिश्रश्रवणं भविष्यति, न शेषदिक्ष्विति, ततश्चादोष इति, अत्रोच्यते, एवमपि त्रिभिः समयैर्लोकापूरणमापद्यते, न चतुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy