SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ पीठिका - [नि.७] एकेन समयेन गृह्णाति एकेन निसृजति, किमुक्तं भवति ?-ग्रहणसमयानन्तरेण सर्वाण्येव तत्समयगृहीतानि निसृजतीति । अथवा एकसमयेन गृह्णात्येव, आद्येन, न निसृजति, तथा एकेन निसृजत्येव, चरमेण, न गृह्णाति, अपान्तरालसमयेषु तु ग्रहणनिसर्गावर्थगम्यौ इत्यतोऽविरोध इति । आह--ग्रहणनिसर्गप्रयत्लौ आत्मनः परस्परविरोधिनौ एकस्मिन्समये कथं स्यातामिति, अत्रोच्यते, नायं दोषः, एकसमये कर्मादाननिसर्गक्रियावत् तथोत्पादव्ययक्रियावत् तथाऽङ्गुल्याकाशदेशसंयोगगविभागकियावच्च क्रियाद्वय-स्वभावोपपत्तेरिति गाथार्थः यदुक्तं-'गृह्णाति कायिकेन' इत्यादि, तत्र कायिको योगः पञ्चप्रकारः, औदारिकवैक्रियाहारकतैजसकार्मणभेदभिन्नत्वात्तस्य, ततश्च किं पञ्चप्रकारेणापि कायिकेन गृह्णाति आहोस्विदन्यथा इत्याशङ्कासंभवे सति तदपनोदायेदमाहनि. (८) तिविहंमि सरीरंमि, जीवपएसा हवंति जीवस्स । जेहि उ गिण्हइ गहणं, तो भासइ भासओ भासं ॥ कृ'त्रिविधे त्रिप्रकारे, शीर्यत इति शरीरं तस्मिन्, औदारिकादीनामन्यतम इत्यर्थः, जीवतीति जीवः तस्य प्रदेशाः जीवप्रदेशाः, भवन्ति, एतावत्युच्यमाने 'भिक्षोः पात्रं' इत्यादौ षष्ट्या भेदेऽपि दर्शनात् मा भूद् भिन्नप्रदेशतयाऽप्रदेशात्मसंप्रत्यय इत्यत आह-जीवस्य आत्मभूता भवन्ति, ततश्चानेन निष्प्रदेशजीववादिनिराकरणमाह, सति निष्प्रदेशत्वे करचरणोरुग्रीवाद्यवयवसंसर्गाभावः, तदेकत्वापत्तेः, कथम् ?-करादिसंयुक्तजीवप्रदेशस्य उत्तमाङ्गादिसंबद्धात्मप्रदेशेभ्यो भेदाभेदविकल्पोनुपपत्तेरिति । यैः किं करोतीत्याह-'यैस्तु गृह्णाति' तुशब्दो विशेषणार्थः, किं विशिनष्टि ? न सर्वदैव गृह्णाति, किन्तु तत्परिणामे सति, किं ?-गृह्णत इति ग्रहणं, ग्रहणमिति “कृत्यल्युटो बहुलं" इतिवचनात्कर्मकारकं, शब्दद्रव्यनिवहमित्यर्थः, 'ततो' गृहीत्वा 'भाषते' वक्ति, भाषत इति भाषकः क्रियाऽऽविष्ट इत्यर्थः, अनेन निष्क्रियात्मवादव्यवच्छेदमाह, सति तस्मिन्निष्क्रियत्वात् अप्रच्युतानुत्पन्नस्थिरैकरूपत्वाद्भाषणाभावप्रसङ्गः, काम् ?-भाष्यत इति भाषा तां भाषां । आह - 'ततो भाषते भाषक' इत्यनेनैव गतार्थत्वाद्भाषाग्रहणमतिरिच्यते इति, न, अभिप्राया-परिज्ञानात्, इह भाष्यमाणैव भाषोच्यते, न पूर्व नापि पश्चाद, इत्यस्यार्थस्य ख्यापनाय भाषाग्रहणमदुष्टमेवेति गाथार्थः ।। यदुक्तं - 'त्रिविधे शरीरे' इत्यादि, तत्र न ज्ञायते कतमत् त्रैविध्यमिति, अतस्तदभिधातुकाम आहनि. (९) ओरालियवेउव्वियआहारो गिण्हई मुयइ भासं । सचं मोसं सच्चामोसं च असच्चमोसं च ।। वृ-तत्र औदारिकवानौदारिकः, इहौदारिकशब्देनाभेदोपचाराद् मतुब्लोपाद्वा औदारिकशरीरिणो ग्रहणमिति, एवं वैक्रियवान्वयैक्रियः, आहारकवानाहारक इति । असौ औदारिकादिः, 'गृह्णाति आदत्ते 'मुञ्चति' निसृजति च, भाष्यत इति भाषा तां भाषां, शब्दप्रायोग्यतया तद्भावपरिणतद्रव्यसंहतिमित्यर्थः । किंविशिष्टामित्याह-सतां हिता सत्या, सन्तो मुनयस्तदुपकारिणी सत्येति, अथवा सन्तो मूलोत्तरगुणास्तदनुपघातिनी सत्या, अथवा सन्तः पदार्था जीवादयः तद्धिता तत्प्रत्यायनफला वस्त्वेकदेशप्रत्यायनफला उत्पन्नमिश्रादिभेदा सत्यामृषेति ता, तथा तिसृष्वप्यनधिकृता शब्दमात्रस्वभावाऽऽमन्त्रण्यादिभेदा असत्यामृषेति तां च, चशब्दः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy