SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम्-१ भवति-विश्रेणिव्यवस्थितः पुनः श्रोता 'शब्द' इति, पुनः शब्दग्रहणं पराघातवासितद्रव्याणामपि तथाविधशब्दपरिणाम ख्यापनार्थे, शृणोति नियमात्' नियमेन पराघाते सति यानि शब्दद्रव्याणि उत्सृष्टाभिघातवासितानि तान्येव, न पुनरुत्सृष्टानीति भावार्थः । कुतः ? -तेषामनुश्रेणिगमनात् प्रतीघाताभावाच्च, अथवा विश्रेणिस्थित एव विश्रेणिरभिधीयते, पदेऽपि पदावयवप्रयोगदर्शनात् 'भीमसेनः सेनः सत्यभामा भामा' इतिगाथार्थः । केन पुनर्योगेन एषां वाग्द्रव्याणां ग्रहणमुत्सर्गो वा कथं वेत्येतदाशय गुरुराहनि. (७) गिण्हइ य काइएणं, निस्सरइ तह वाइएण जोएणं । एगंतरं च गिण्हइ, निसिरइ एगंतरं चेव ।। कृतत्र कायेन निवृत्तः कायिकः तेन कायिकेन योगेन, योगो व्यापारः कर्म क्रियेत्यनर्धान्तरं, सर्व एव हि वक्ता कायक्रियया शब्दद्रव्याणि गृह्णाति, चशब्दस्त्वेवकारार्थः, स चाप्यवधारणे, तस्य च व्यवहितः संबन्धः, गृह्णाति कायिके.व, निसृजत्युत्सृजति मुञ्चतीति पर्यायाः, तथेत्यानन्तर्यार्थः, उक्तिर्वाक् वाचा निवृत्तो वाचिकस्तेन वाचिकेन योगेन । कथं गृह्णाति निसृजतीति वा? किमनुसमयं उत अन्यथेत्याशङ्कासभवे सति शिष्यानुग्रहार्थमाह-एकान्तरमेव गृह्णाति, निसृजति एकान्तरं चैव, अयमत्र भावार्थः-प्रतिसमयं गृह्णाति मुञ्चति चेति, कथम्?, यथा ग्रामादन्यो ग्रामो ग्रामान्तरं, पुरुषाद्वा पुरुषोऽनन्तरोऽपि सनित, एवमेकैकस्मात्समयाद् एकैक एव एकान्तरोऽनन्तरसमय एवेत्यर्थः । अयं गाथासमुदायार्थः । अत्र कश्चिदाह-ननु कायिकेनैव गृह्णातीत्येतद् युक्तं, तस्यात्मव्यापाररूपत्वात्, निसृजति तु कथं वाचिकेन ?, को वाऽयं वाग्योय इति । किं वागेव व्यापारापन्ना आहोश्चित् तद्विसर्गहेतुः कायसंरम्भ इति?, यदि पूर्वो विकल्पः, स खल्वयुक्तः, तस्या योगत्वानुपपत्तेः, तथा च न वाक्केवला जीवव्यापारः, तस्याः पुद्गलमात्रपरिणामरूपत्वात, रसादिवत, योगश्चात्मनः शरीरवतो व्यापार इति, न च तया भाषया निसृज्यते, किन्तु सैव निसृज्यत् इत्युक्तं, अथ द्वितीयः पक्षः, ततः स कायव्यापारएवेतिकृत्वा कायिकेनैव निसृजतीत्यापन्नं, अनिष्टं चैतत् इति, अत्रोच्यते, न, अभिप्रायापरिज्ञानात्, इह तनु-योगविशेष एव वाग्योगो मनोयोगश्चेति, कायव्यापारशून्यस्य सिद्धवत् तदभावप्रसङ्गात्, ततश्चात्मनः शरीरव्यापारे सति येन शब्दद्रव्योपादानं करोति स कायिकः, येन तु कायसंरम्भेण तान्येव मुञ्चति स वाचिक इति, तथा येन मनोद्रव्याणि मन्यते स मानस इति, कायव्यापार एवायं व्यवहारार्थे त्रिधा विभक्त इत्यतोऽदोषः । तथा 'एकान्तरं च गृह्णाति, निसृजत्येकान्तरं चैव' इत्यत्र केचिदैकैकव्यवहितं एकान्तरमिति मन्यन्ते, तेषां च विच्छिन्नरत्नावलीकल्पो ध्वनिरापद्यते, सूत्रविरोधश्च, यत उक्तं-"अनुसमयमविरहियं निरन्तरं गिण्हइ" त्ति ।। आह-यत्पुनरिदमुक्तं “संतरं निसरति, नो निरंतरं, एगेणं समएणं गिण्हति, एगेणं निसरती" त्यादि, तत्कथं नीयते?, उच्यते, इह ग्रहणापेक्षया निसर्गः सान्तरोऽभिहितः, एतदुक्तं भवतियथा आदिसमयादारभ्य प्रतिसमयं ग्रहणं, नैवं निसर्ग इति, यस्मादाद्यसमये नास्तीति, ग्रहणमपि निसर्गापेक्षया सान्तरमापद्यत इति चेत्, न, तस्य स्वतन्त्रत्वात्, निसर्गस्य च ग्रहणपरतन्त्रत्वात्, यतो नागृहीतं निसृज्यत इति, अतः पूर्वपूर्वग्रहणसमयापेक्षया सान्तरव्यपदेश इति । तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy