________________
पीठिका - नि. ५)
सूर्याद्यालोकनेषु चोपघातसद्भावात् असिद्धो हेतुः, मनसोऽपि प्राप्तविपयपरिच्छेदकत्वासाध्यविकलो दृष्टान्तः, तथा च लोके वक्तारो भवन्ति-“अमुत्र मे गतं मनः" इति, अत्रोच्यते, प्राप्तिनिबन्धनाख्यहेतुविशेषणार्थनिराकृतत्वाद् अस्याक्षेपस्येत्यदोषः । किं च-यदि हि प्राप्तिनिबन्धनौ विषयकृतावनुग्रहोपधातौ स्यातां, एवं तर्हि जलाद्यालोकनेषु दाहभेदक्लेदादयः स्युरिति। किं च-प्राप्तविषयपरिच्छेदकत्वे सति अक्षिअञ्जनमलशलाकादिकमपि गृह्णीयात् । आह-नायना मरीचयो निर्गत्य तमर्थं गृह्णन्ति, ततश्च तेषां तैजसत्वात् सूक्ष्मत्वाच्चानलादिसंपर्के सत्यपि दाहायभाव इति, अत्रोच्यते, प्राक् प्रतिज्ञातयोरनुग्रहोपघातयोरप्यभावप्रसङ्गाद् अयुक्तमेतत, तदस्तित्वस्य उपपत्त्या ग्रहीतुमशक्यत्वाच्च । व्यवहितार्थानुपलब्ध्या तदस्तित्वावसाय इति चेत्, न, तत्रापि तदुपलब्धौ क्षयोपशमाभावात् व्यवहितार्थानुपलब्धिसिद्धेः, आगममात्रमेवैतत् इति चेत्, न, युक्तिरप्यस्ति, आवरणाभावेऽपि परमाण्वादौ दर्शनाभावः, स च तद्विधक्षयोपशमकृतः, यञ्चोक्तं-'साध्यविकलो दृष्टान्त' इति, तदप्ययुक्तं, ज्ञेयमनसोः संपर्काभावात्, अन्यथा हि सलिलकर्पूरादिचिन्तनादनुगृह्येत, वह्निशस्त्रादिचिन्तनाचोपहन्येत, न चानुगृह्यते उपहन्यते वेति। आह-मनसोऽनिष्टविषयचिन्तनातिशोकात् दौर्बल्यं आर्तध्या नादुरोऽभिघातश्च उपलभ्यते, तथेष्टविषयचिन्तनाप्रमोदः, तस्मात्राप्तकारिता तस्येति, एतदप्ययुक्तं, द्रव्यमनसा अनिष्टेष्टपुद्गलोपचयलक्षणेन सकर्मकस्य जन्तोरनिष्टेष्टाहारेणेवोपघातानुग्रहकरणात्कथं प्राप्तविषयनेति।
किं च-द्रव्यमनो वा बहिः निस्सरेत्, मनः परिणामपरिणतं जीवाख्यं भावमनो वा?, न तावद्भावभनः, तस्य शरीरमात्रत्वात्, सर्वगत्वे च नित्यत्वात् बन्धमोक्षाद्यभावप्रसङ्गः । अथ द्रव्यमनः, तदप्ययुक्तं, यस्मानिर्गतमपि सत् अकिञ्चित्करं तत, अज्ञत्वात्, उपलवत् । आहकरणत्वाद्रव्यमनसस्तेन प्रदीपेनेव प्रकाशितमर्थमात्मा गृह्णातीत्युच्यते, न, यस्मात् शरीरस्थेनैवानेन जानीते, न बहिर्गतेन, अन्तः करणत्वात्, इह यदात्मनोऽन्तः करणं स तेन शरीरस्थेनैव उपलभते, यथा स्पर्शनेन, प्रदीपस्तु नान्तः करणमात्मनः, तस्माद् दृष्टान्तदान्तिक-योर्वेषम्यमित्यलं विस्तरेण, प्रकृतं प्रस्तुम इति गाथार्थः ।।
किं च प्रकृतं ?, स्पृष्टं शृणोति शब्दमित्यादि, अत्र किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि गृह्णाति ? उत अन्यान्येव तद्भावितानि? आहोस्विन्मिश्राणि इति चोदकाभिप्रायमाशय, न तावत्केवलानि, तेषां वासकत्वात्, तद्योग्यद्रव्याकुलत्वाच लोकस्य, किन्तु मिश्राणि तद्वासितानि वा गृह्णाति इत्यमुमर्थमभिधित्सुराह - नि. (६) भासासमसेढीओ, सदं जं सुणइ मीसयं सुणई।
वीसेढी पुण सई, सुणेइ नियमा पराधाए । वृ-भाष्यत इति भाषा, वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समश्रेण्यो षट्सु दिक्षु विद्यन्ते, यासूत्सृष्टा सती भाषाऽऽद्यसमय एव लोकान्तमनुधावतीति, ता इतो भाषासमश्रेणीतः, इतो गतः प्राप्तः स्थित इत्यनन्तरम्, एतदुक्तं भवति-भाषासमश्रेणिव्यवस्थित इति । शब्यतेऽनेनेति शब्दः-भाषात्वेन परिणतः पुद्गलराशिस्तं शब्द 'यं पुरुषाश्वादिसंबन्धिनं शृणोति गृह्णात्युपलभत इति पर्यायाः, यत्तदोर्नित्यसंबन्धात्तं मिश्रं शृणोति, एतदुक्तं भवतिव्युत्सृष्टद्रव्यभावितापान्तरालस्थशब्दद्रव्यमिश्रमिति । विश्रेणिं पुनः इत इति वर्त्तते, ततश्चायमर्थो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org