Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पीठिका - [नि.१ शब्दोऽवधिज्ञानसारूप्यप्रदर्शनार्थः, कथम् ? छद्मस्वस्वामिसाधात्, तथा पुद्गलमात्रालम्बनत्वसाम्यातू, तथा क्षायोपशमिकभावसाम्यात्, तथा प्रत्यक्षत्वसाम्याच्चेति । केवलमसहायं मत्यादिज्ञाननिरपेक्ष, शुद्धं वा केवलं, तदाचरणकमलकलङ्काङ्करहितं, सकलं वा केवलं, तत्प्रथमतयैव अशेषतदावरणाभावतः संपूर्णोत्पत्तेः, असाधारणं वा केवलं, अनन्यसहशमितिहदयं, ज्ञेयानन्तत्वाद् अनन्तं वा केवलं, यथावस्थिताशेषभूतद्भाविभावस्वभावावभासीति भावना, केवलं च तज्ज्ञानं चेति समासः, चशब्दस्तूक्तसमुच्चयार्थः, केवलज्ञानं च पञ्चमकमिति, अथवाऽनन्त राभिहितज्ञानसारूप्यप्रदर्शक एव, अप्रमत्तभावयतिस्वामिसाधात् विपर्ययाभावयुक्तत्वाच्चेति गाथासमासार्थः ।। __ मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति, उच्यते, उत्पन्नाविनष्टार्थग्राहकं साम्प्रत-कालविषयं मतिज्ञानं, श्रुतज्ञानं तु त्रिकालविषयं उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति, भेदकृतो वा विशेषः, यस्मादवग्रहाद्यष्टाविंशतिभेदभिन्नं मतिज्ञानं, तथाऽङ्गानङ्गादिभेदभिन्नं च श्रुतमिति, अथवाऽऽत्मप्रकाशकं मतिज्ञानं, स्वपरप्रकाशकं च श्रुतमित्यलं प्रसङ्गेन, गमनिकामात्रमेवैतदिति । अत्राहएषां ज्ञानानामित्थं क्रमोपन्यासे किं प्रयोजनं इति, उच्छते, परोक्षत्वादिसाधान्मतिश्रुतसद्भावे च शेषज्ञानसंभवात् आदावेव मतिश्रुतोपन्यासः, मतिज्ञानस्य पूर्व किमिति चेत्, उच्यते, मतिपूर्वकत्वात् श्रुतस्येति, मतिपूर्वकत्वं चास्य "श्रुतं मतिपूर्वम्" इति वचनात्, तत्र प्रायो मतिश्रुतपूर्वकत्वाप्रत्यसाधाच्च ज्ञानत्रयोपन्यास इति, तत्रापि कालमिवपर्ययादिसाम्यान्मतिश्रुतोपन्यासानन्तरमेवावधेरुपन्यास इति, तदनन्तरं च छाद्मस्थिकादिसाधान्मनः पर्यायज्ञानस्य, तदनन्तरं भावमुनिस्वाम्यादि-साधात्सर्वोत्तमत्वाच्च केवलस्येति गाथार्थः ॥
साम्प्रतं 'यथोद्देशं निर्देशः' इति न्यायाद् ज्ञानपञ्चकादावुद्दिष्टस्य आभिनिबोधिकज्ञानस्य स्वरूपमभिधीयते-तच्चाभिनिबोधिकज्ञानं द्विधा, श्रुतनिश्रितमश्रुतनिश्रितं च, यत्पूर्वमेव कृतश्रुतोपकारं इदानीं पुनस्तदनपेक्षमेवानुप्रवर्तते तद् अवग्रहादिलक्षणं श्रुतनिश्रितमिति । यत्पुनः पूर्व तदपरिकर्मितमतेः क्षयोपशमपटीयस्त्वात् औत्पत्तिक्यादिलक्षणं उपजायते तदश्रुतनिश्रितमिति । आह-“तिवग्गसुत्तत्थगहियपेयाला” इति वचनात् तत्रापि किञ्चित् श्रुतोपकारादेव जायते, तत्कथमश्रुतनिश्रितमिति, उच्यते, अवग्रहादीनां श्रुतनिश्रिताभिधानाद् औत्पत्तिक्यादिचतुष्टयेऽपिच अवग्रहादिसद्भावात् यथायोगमश्रुतनिश्रितत्वमवसेयं, न तु सर्वमेवेति, अयमत्र भावार्थ:-श्रुतकृतोपकारनिरपेक्षं यदौत्पत्वियादि तदश्रुतनिश्रितं, प्रातिभमितिहृदयं, वैनयिकी विहायेत्यर्थः, बुद्धिसाम्याच तस्या अपि निर्युक्तौ उपन्यासोऽविरुद्ध इत्यलं प्रसङ्गेन । तत्र श्रुतनिश्रितमतिज्ञानस्वरूपप्रदर्शनायाहनि. (२) उग्गह ईहाऽवाओ य धारणा एव हुंति चत्तारि ।
आभिनिबोहियनाणस्स भेयवत्थू समासेणं ।। वृ-तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं अवग्रहः, तदर्थविशेषालोचनं ईहा, तथा प्रक्रान्तार्थविशेषनिश्चयोऽवायः, चशब्दः पृथक् २ अवग्रहादिस्वरूप-स्वातन्यप्रदर्शनार्थः, अवग्रहादीनां ईहादयः पर्याया न भवन्तीत्युक्तं भवति, अवगतार्थविशषधरणं धारणा, एवकारः क्रमप्रदर्शनार्थः, ‘एवं' अनेनैव क्रमेण भवन्ति, चत्वारि, आभिनिवोधिकज्ञानस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d4b8861029f1f77bda117db3ebec50ef2b6d029b1a54c9a02a7e6df35ecd2f3f.jpg)
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 808